________________
जिनवल्लभसूरि-ग्रन्थावलि
१०७
चरणपतितं प्रत्याख्याय प्रियं प्रियवादिनीमपि मम गिरं धूत्वा भूत्वाऽभिमानधना सखि। विरह दह नोभूमज्वालातुलैस्तनुतापिभिः,
सरलतरलश्वासैमिथ्याऽधुना परिखिद्यसे । ८४ ॥ भुनभ्रस्फुटरक्तगण्डफलकं प्रस्यन्दि दन्तच्छदं
लोलल्लोहितचक्षुरुद्गिरदिव प्रौढानुरागं हृदः। सर्वाकारमनोहरं सुतनु ! ते कोपेऽपि पश्यन् मुखं,
दूयेनाऽस्मि यतस्ततोऽयमधुना मानानुबन्धेन ते॥ ८५॥ कान्ते! कान्ते कदाऽहं शिरसि न कृतवान्माल्यमालामिवाज्ञां,
क्षुण्णं चेत् क्षाम्य तावन्न पुनरपि विधास्यामि पादानतोऽस्मि। प्रेङ्खत्केतूद्यदिन्दुद्युतिभयदमिदं मे विलोलालकाग्रं,
चण्डि! त्वं पाण्डुगण्डस्थलमलमरुणं किं मुधैवाऽऽदधासि॥८६॥ कान्ते! लोचनगोचरेऽपि सपदि प्रोद्दामरोमोद्गम
नुद्यत्कञ्चकसन्धिसूचितरुचिः कम्पाकुलोरस्तनि । सद्यः सान्द्रतरद्रवद्रतिजलैरार्द्र नितम्बाम्बरं,
गोपायन्त्यपि किं न दैवहतिके! मानग्रहं मुञ्चसि ।। ८७ ॥ तन्वि! तन्विदमनाकुलं मनः, किं करोषि क इव श्रमो मयि। चण्डि! वध्यकरवीरमालिका-दारुणे रचयमारुणे दृशौ॥ ८८॥ कोपत्र्यस्रपरान्मुखाङ्गकृतकस्वप्नां प्रियां पृष्ठत
स्तिष्ठन्नुत्कटकण्टकाङ्करकणाकीर्णां करेण स्पृशन्। कोऽपि स्वेदजलच्छलद्रुतगलन्मानां विद न्याट्वात्(?),
धूर्तः प्रक्रमते हठाच्चटुपटुः स्पष्टं परावृन्तकम्॥ ८९ ॥ दृष्टेऽभीष्टजने ततो हृदि धृते जाते मिताभाषणे,
विस्रम्भे च मनोगते करचितोपायप्रवृत्ते चिरात्। रागे पुष्यति शुष्यदङ्गमपि सद्धत्ते रतिं तां मिथः,
सङ्कल्पाहितसङ्गमङ्गमिथुनं नो यत्र वाचां गतिः॥ ९० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org