SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ जिनवल्लभसूरि-ग्रन्थावलि १०५ यच्चित्रोत्पलपत्रकं त्रिकतटं यद् बिन्दुमालाऽलके, - यद् विस्पष्टशशप्लुतं स्तनयुगं यद् बिन्दुहृद् योऽधरः। सद्यो गण्डतलं प्रवालमणिवद् यत्ते स्वयं दूति तद्, दातुं सम्प्रति सर्वथाऽहितरते युक्तोऽर्द्धचन्द्रो गले ॥ ७१॥ चिन्तासन्तानदृष्टं पुर इव शयने त्वामुपालम्भयन्ती, त्वद्गोत्राऽद्वैतबुद्ध्या सकलपरिजनं नाम ते लम्भयन्ती। अन्तः सन्तापसारां स्तनभुवमनिशं सिञ्चती नेत्रनीरै द्र्छासञ्छन्नसंज्ञा विकरुण करुणां तां दशां सा पिधते ॥ ७२ ।। दृष्ट्वा कामनिकामकेलिकलितानुत्तुङ्गसौधावलीतल्पाऽनल्पविकल्पकल्पितरतारम्भान् पुरः कामिनः । प्राचीषद्गलिते तमोमुखपटे वैकृत्यकृत्येक्षणाद्, उद्यच्चन्द्रमुखीव रश्मिभिरभिस्पष्टाट्टहासाऽभवत् ।। ७३ ।। इन्दोरुद्यदखण्डमण्डलमदः प्राच्या वधूट्या स्फुटं, वक्त्रं कुङ्कमपङ्किलं किल निशारम्भे क्षयोदञ्चितम् । यस्मादत्र विशालभालफलकां तां स्तोककस्तूरिका विन्यस्तस्तबकाकृतिं विरचयत्यन्तः कलङ्कोऽपि च ॥७४ ॥ चञ्चन्ति चन्द्रकिरणाः किल केरलस्त्री-हासश्रियां च मुरुलीदशनद्युतां च। कीराङ्गनामलकपोलतलत्विषां च, लाटीललाटतटरुच्यरुचां च चौराः ।। ७५ ।। वेषः किं विषति क्षणान् मलयजालेपः किमङ्गारति, स्रक्पौष्पी किमु कालपाशति पुरं किं जीर्णकान्तारति। कारागारति तेऽद्य किं रतिगृहं किं भूषणं भारति, त्रैलोक्यं च सखे ! ज्वलज्ज्वलनति द्रागेव किं सर्वतः॥७६॥ उद्भूतोद्दामकामक्रमकलितसलीलाङ्गभङ्गप्रसङ्ग प्रोटेलबाहुपाशोच्छसितकुचतटोदस्तवस्त्रान्तकान्तं । व्यक्तिभूताङ्गभागोल्लसदलसमनोहारिलावण्यलक्ष्मी लुभ्यल्लोलाक्षलोकोत्करतरलचलन्नेत्रनीराजितानाम् ॥ ७७ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002681
Book TitleJinvallabhsuri Granthavali
Original Sutra AuthorVinaysagar
Author
PublisherPrakrit Bharti Academy
Publication Year2004
Total Pages398
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy