SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ जिनवल्लभसूरि-ग्रन्थावलि १०३ अस्याः सद्यो मदनसरितश्चन्द्रकान्तप्रभायाः, सारङ्गाक्ष्याः सपदि भवति स्वेदगर्भाङ्गयष्टिः। किं वा बन्धात् कुसुममिव सम्फुल्लसेफालिकायाः, नीवीग्रन्थिः स्खलितदयिताऽऽस्येन्दुसन्दर्शनेन ॥५९ ॥ सा चेद् वक्त्रेण चञ्चन्मृगमदरचितोच्चित्रपत्रेण रम्भा, स्तम्भोरू रूपरेखाविजितमनसिजप्रेयसी प्रेयसी नः। न्यच्चक्रे' तजिगीषु सकलमपि यदा त्वां तदा लक्ष्यलक्ष्मन्, कस्मादस्मानकस्मात् स्मरपरमसुख!' श्वेतगो!६ हंसिपादैः।। ६० । यत्सत्यं सुभग ! स्वजीवितविभोः तस्याः सदैवाऽऽदरा दुत्कण्ठाभरनिर्भरे हृदि कृतावासोऽसि तेनाऽधुना। मामप्युत्कयसि प्रियत्वमथवा किं पाटलासङ्गमात्, सौगन्ध्यं पयसः कपालशकलं नाधातुमस्मिन्नलम्॥ ६१॥ गुरुः स्तम्भारम्भः कुचमुकुलयोराऽऽहितसखी ___ मनः कम्पः कम्पः श्वसितमधिकं चक्षुरभसम्। अविच्छेदः स्वेदः पृथुदवथु शून्यं च हृदहो!, न जानीमः तस्याः क इव हि चिकारव्यतिकरः॥ ६२ ।। कान्तं १°मानसमक्षिपुष्करवरं शोणोऽधरः१२ कुन्तलाः, कालिन्दीरुचिराः१३ कपोलफलकश्रीश्चन्द्रभागाऽधिका। सूते शर्म सरस्वती१५ मुखनदी१६ नाभिः क्रिया नर्मदा, तापक्लान्तिनुदे मुदे च सुतनु! त्वं पुण्यतीर्थाश्रिता ॥६३॥ इन्दोर्नाम मुधा सुधाकर इति व्यक्तं यदेकं प्रियं, कामं नाम हराक्षिवह्निकणिकोत्तापान्न पातुं क्षमः। १. पराबभूव २. वदनजेतुकामं ५५. हे चन्द्र ६. पार्वण ९. बहुलसन्तापं १०. चित्तं १३. दीप्तिदा १४. नदीविशेषः ३. दृश्यकलङ्क ४. हेतोः ७. मारयसि - ८. उत्कण्ठयसि ११. पानीय श्रेष्ठं १२. नदः १५. वाणी १६. प्रमुखसरिद् गङ्गा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002681
Book TitleJinvallabhsuri Granthavali
Original Sutra AuthorVinaysagar
Author
PublisherPrakrit Bharti Academy
Publication Year2004
Total Pages398
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy