SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ૧૦૨ शृङ्गारशतकाव्यम् विलासलसदंशुकव्यतिकराङ्गसङ्गोपनक्रमोन्नमितदोलताविशद्बाहुमूलस्तनम्। विलोलचलनाङ्गलीलिखितभूतलं सुभ्रवः, स्मरामि तरलेक्षणं तदवहित्थदुस्थं स्थितम्॥५३॥ किञ्चित्त्र्यस्तैकपार्श्वस्तनतटघटनादुत्रुटत्कञ्चकाङ्गी, मां दृष्ट्वा स्पष्टमोट्टायिततरलचलत्तर्जनीकं व्यधात् या। तामीक्षेऽद्यापि हेलाबलललितवलत्कण्ठमामीलिताक्षं, लोलबोर्नाललीलाचलनकलकणत्कङ्कणं कर्णकण्डूम्॥ ५४॥ प्राक्कोपादवधूय भूयसि परिम्लानेऽपमाने कृत स्वप्नायाश्चरणस्पृशं धृतसखीवेषं प्रिया[ ! प्रियं]जानती। पादौ मे सनि मृगती प्रियकरस्पर्शभ्रमव्याकुलां, मा मा कुर्वति मामुदीर्य सहसा शय्यां समारोपयत् ॥ ५५ ॥ 'स्थाने सख्यः परिचयवति प्राड्नमः प्राणनाथे, लज्जामज्जत्युदयति रतिः स्रंसते नीविबन्धः। नैवेदानीमदयहृदये प्रोषिते तत्र युक्तो, नामोच्चारादपि हततनो सात्विकारम्भदम्भः ।। ५६॥ मुक्ता मुक्तावलिरचनया सुभ्र! किं तेऽलकाली, किञ्चित् श्लिष्यत्कुसुमविसरः केशहस्तो विहस्तः। किं वा यूनां स्मरतिमिरिणां नाद्य साङ्कद्विचन्द्र भ्रान्तिं धत्ते मृगमदरसोच्चित्रपत्रौ कपोलौ॥ ५७॥ चेतः सन्निहिताऽपि सा प्रतिपदाहूतापि यत्नोत्तरं, दत्ते मेतदुदीक्ष्य मां प्रकुपिता साऽसूयमुक्त्वेति माम्। लोलत्पाटलचक्षुरुद्भटभवद्भूभङ्गभीमा रुषा, मानिन्याऽऽकुलकुन्तला हठकराकृष्टं पदाऽताडयत् ।। ५८॥ १. आकारगोपनविषमम् २. युक्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002681
Book TitleJinvallabhsuri Granthavali
Original Sutra AuthorVinaysagar
Author
PublisherPrakrit Bharti Academy
Publication Year2004
Total Pages398
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy