SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १०० शृङ्गारशतकाव्यम् तिर्यग्वर्तितनर्त्तितालसलसत्तारे चले चाक्षिणी, लीलाबन्धुरमुद्धरं च गमनं भ्रान्ते स्थिरे च भ्रुवौ। तन्वड्याः स्मितदुग्धदिग्धमुदयद् वैदग्ध्यमुग्धं वचः, प्रीत्यै कस्य न वाऽभ्रविभ्रममहो स्निग्ध्यं विमोग्ध्यं वयः॥ ४० ।। आबद्धस्तनबिम्बबन्धुरमुरोऽमुष्या मनोजन्मने, दत्तद्वारसुवर्णपूर्णकलशावासश्रियं पुष्यति। , यूनां विस्मयविस्मृतान्यविषयं यस्मान्मुहुः पश्यतां, चक्षुर्दीधितितालिका विघटिते वा याति चित्ते रतिः॥ ४१ ॥ सा कुम्भसन्निभकुचा स्फुरदूरुदण्ड-सुण्डातिमन्थरगतिर्मदघूर्णिताक्षी। यन्मानसं रतिमतिस्मृतिपद्मिनीभिः, साकं करेणुरिव सोत्कलिकं ममन्थ ॥४२ ।। चक्षुःक्षिप्तवलक्षपक्ष्मलचलच्चक्षुःकटाक्षच्छटाः, सा बाला सविलासमस्यति सुधाधारानुकाराः स्म यत्। हुं तत्कामिकुरङ्गबन्धविधये शृङ्गारलीलागुण प्रेमग्रन्थिघनामनङ्गमृगयुः प्रासीसर वागुराम् ॥ ४३ ।। स्फाराक्ष्युत्क्षिप्तपक्ष्मोद्घटितपुटपिधानोरुशृङ्गारपाथो, भृङ्गारद्वन्द्वभासा स्नपयदनभितो मां यदक्षिद्वयेन। मुक्ताचूर्णैर्नु चन्द्रद्युतिभिरुत सुधासारधाराभिराहो, मुग्धा दुग्धाब्धिनीरैस्तदभृतककुभः किं नु कर्पूरपूरैः॥ ४४ ॥ स्निग्धं मुग्धमपाङ्ग सङ्गि मुकुलं चक्षुः किमाकेकरं, किञ्चोत्क्षिप्तनिकुञ्चितान्तचतुरा भ्रूवल्लिरुल्लासिनी। स्वस्थानस्थमपीदमंशुकमरं किं रच्यतेऽथोल्लस ल्लीलांदोलितदोर्लतं गतमभूत् कस्मादकस्मात् सखि!॥ ४५ ॥ सा ते चित्तगता स्वभावचपला ब्रूते स्वनामेति त न्मा गोत्रस्खलनेन ते सुभगभूद्वैलक्षलक्षं मनः। १. चित्तं, पक्षे सरः ४. चिक्षेप ५. व्याधः २. हस्तिनीव ६. प्रसारयामास. ३. सोत्कण्ठं ७. गमनं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002681
Book TitleJinvallabhsuri Granthavali
Original Sutra AuthorVinaysagar
Author
PublisherPrakrit Bharti Academy
Publication Year2004
Total Pages398
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy