SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ जिनवल्लभसूरि-ग्रन्थावलि यस्य स्वप्नसमागमेऽपि समभूत्सा काऽप्यवस्था मनो, यत्रानन्दनदावगाहि तु सुधा सारोक्षितं नुरे क्षणात् । आसीत् सोऽपि जनो ह हा !! विधिवशात् तस्यापि मे चेतसो, दृष्टोऽप्यन्यजनायते झगिति तद् धिक् प्रेम निःस्थेम' यत् ।। ३४ ।। यदेतत् तन्वड्या नयननलिनाढ्यं मुखसरस्तरत्यत्रं [?] नीलाऽलकविपुलसेवालपटलम्। लसल्लावण्याम्भः प्रसरमरमुत्तापहतये [?], स्मरज्ज्वालाजालग्लपितवपुषामेष विषयः ॥ ३५ ॥ मृद्वङ्गीति तनूदरीति विलसल्लावण्यवापीति वा, बिम्बोष्ठीति पृथुस्तनीति सुमुखीत्याऽऽवर्त्तनाभीति च। शृङ्गारोरुतरङ्गिणीति हृदयस्मेराम्बुजाक्षीति च, स्मारं स्मारमरे ! स्मरज्वरभरभ्रान्तं किमुत्ताम्यसि ॥ ३६॥ स्त्रीपुंसाः सखि तावदत्र दधतस्तास्ता दशा रागिणोः, ___ प्रेमप्रेमवियोगयोगजनितं दुःखं सुखं वाप्नुयुः। पुंस्त्वं स्त्रीत्वमृतेऽपि यत्तु हृदयं विद्राति निद्राति मे, नाऽक्षि ग्लायति चाङ्गमेतदुचितं नैषां प्रिये प्रोषिते ॥ ३७॥ दुर्लक्ष्योऽस्या विकारो वपुषि वरतनोः कोऽपि वैद्याऽचिकित्स्यो, यन्नाऽपस्मारहेतोर्व्यथयति विरहे केवलं किन्त्वकस्मात् । दृष्टेऽपीष्टेऽमृताम्भः प्लवमुचि निविडस्तम्भसंरम्भदुस्था, सद्यः स्वेदाम्बुधौताङ्ग्यपि मुकुलितदृग्मूर्च्छया छाद्यते स्म॥३८॥ बाला बालिशदेश्य पश्चिमकलाशेषेन्दुलेखेव ते, भूयो दर्शनकांक्षया जिगमिषु जीवं बलाद् रुन्धती। वारं वारमरालपक्षविगलद् बाष्पप्रवाहाऽऽविलं, चक्षुर्दिक्षु ससर्ज गर्जति घने सा लोललम्बालका॥ ३९ ॥ १. चार्थे ३. अस्थैर्य २. वितर्कार्थे ४. एतदौषधम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002681
Book TitleJinvallabhsuri Granthavali
Original Sutra AuthorVinaysagar
Author
PublisherPrakrit Bharti Academy
Publication Year2004
Total Pages398
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy