SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ शृङ्गारशतकाव्यम् तत्कालावधि सा मनस्तृणकुटीलग्नस्मराग्निर्निशां, बाष्पव्याकुलकण्ठनालमनयत् कृत्स्नां रुदत्यैव ताम्॥ २७॥ दासस्तेऽस्मि परिश्रुताश्रुसलिलं सुश्रोणि ! किं रुद्यते, गोत्राग:कृर्तिजल्पतीति दयिते बाला विहस्यावदत् । नाहं रोदिमि मन्मुखेक्षणरुचे यन्नामगृह्णास्यदः, सैवं मेऽक्षिगता प्रिया तव शठ! त्वदर्शनात् खिद्यति ॥ २८ ॥ मनसि निहितं ध्यानैकाग्रयं हताः सकलाः क्रियाः, वचसि कृतमक्षुण्णं मौनं तनुस्तनुतां गता। अपि कुचतटी मालामुक्ता वराक्षिनिरञ्जनं', तदपि समभून्नास्या योगो वियोगविधिः परम् ॥ २९ ॥ सद्य:स्वेदपयःप्लवप्लुतवपुः सम्पृक्तकूर्पासकार, तत्कालप्रबलोच्छलद्रतिबलैस्तिम्यन्नितम्बाम्बरा । दुर्दृष्टे त्वमदृष्ट एव हि वरं येनेयमस्मत्सखी, प्राप्ताऽऽकस्मिकसाध्वसाऽऽकुलतनुर्दुस्थामवस्थामिमाम्॥३०॥ उद्भूतविभ्रम[मनोज्ञ] विजृम्भिकाऽपि, लीलानिमीलनयनाप्यविदूरतोऽपि। सा पुण्डरीकवदना मदनावरुग्ण-मस्मन्मनोहरिणमङ्कगतं चकार ॥ ३१॥ आस्यं दास्यदशातिदेशि शशिनः कातर्यचर्याङ्कित स्फाराऽक्षेक्षणकल्पदत्तहरिणस्त्रीवीक्षणं वीक्षणम्। भ्रूविभ्रान्तिरनङ्गचापलतिकालीलाकृताचार्यका, किं वा खर्वितसर्वगर्वविभवं नाऽस्या मनोज्ञाकृतेः॥ ३२ ॥ सत्यं सख्यविकल्पदृक्षणिकधीर्नष्टायकः सौगतः, प्रामाण्येन न यो ब्रवीत्यवितथज्ञाने विकल्पस्मृती। यस्मादस्मि विकल्पतल्पशयितं प्रेयांसमङ्गस्पृशं, स्मृत्वा केलिकलां च तां रतिफलं विन्दामि निन्दामि च ॥३३॥ १. सपत्नीनामग्रहणापराधिनि २. अत्र वराक्षि इति पदं कर्मधारयसमस्तं बोध्यम् ३. तत्कालप्रस्वेदजलप्रवाहस्नाताङ्गलग्नकञ्चका . ४. गतपुण्यः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002681
Book TitleJinvallabhsuri Granthavali
Original Sutra AuthorVinaysagar
Author
PublisherPrakrit Bharti Academy
Publication Year2004
Total Pages398
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy