SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ जिनवल्लभसूरि-ग्रन्थावलि अमन्दानन्दं तद्वदनमनिशं वेद्मि मनसा, दृशा पश्याम्याशादश विशदयत्तद्वपुरहम्। सदा तन्निर्वृत्तं जगदखिलमीक्षे च यदतो, वियोगः संयोगाद् वरमिव हि मन्ये मृगदृशः॥ २१ ॥ सखि! गतिरियं किं ते जाता श्रमादिव मन्थरा, मधुमदवती चेयं किं वा स्मिता मुकुला च दृक् । भयमयमिव स्वेदस्तम्भि प्रकम्पि च किं वपु नयनमधुराऽकस्मात् कस्माद्दशाऽभवदीदृशी ॥ २२ ।। निश्वासा करकेलिपङ्कजदलोल्लासा यदेते चला, यच्चैष स्फुरति प्रकम्पितजपापुष्पप्रकाशोऽधरः। यच्च स्वेदि ललाटमङ्गमलसं विभ्रान्तमक्षिभ्रुवं, तन्नूनं सखि ! ते स्मरग्रहमहापस्मारजं वैकृतम् ।। २३ ।। शल्यत्यद्यापि तन्मे मनसि गुरुपुरो यत्तदा पक्ष्मलाक्ष्या, मां लक्षीकृत्य मुक्तो झगिति निविडितव्रीडमाकेकराक्ष्या। चञ्चत्पञ्चेषुनाराचरुचिरभिवलद् ग्रीवया पक्ष्मलेखा पुङ्खः कर्णावतंसाम्बुरुहमिलदलिश्रेणिकान्तः कटाक्षः॥ २४॥ कान्तिभ्रमोन्नमितवेल्लितबाहुवल्लि-संदर्शितोन्नतघनस्तनबाहुमूला। यन्मां मदालसमुदैवत साङ्गभङ्ग-मङ्गारवद्दहति तद्धृशमम्बुजाक्षी ॥ २५ ॥ दृश्योल्लासिशर्शप्लुतोद्गतपदं सोल्लेखरेखस्फुटो द्भाव्यव्याघ्रनखाङ्कमङ्कविकसल्लावण्यवारां पदम्। तनिर्व्यक्तवराहचर्चितदलत्पत्राङ्करं सोष्म ते, ___ पुष्णात्येव घनस्तनस्थलमिदं तृष्णां न मुष्णाति नः॥ २६ ॥ हे सौभाग्यनिकेत ! कोपकणिकाकूतेने बालोऽचल त्वां धूत्वापि यदैव दैवहतिका मुक्ता त्वयेव क्रुधा। २. अल्पक्रोधाभिप्रायेण १. बन्धविशेषः ३. अज्ञा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002681
Book TitleJinvallabhsuri Granthavali
Original Sutra AuthorVinaysagar
Author
PublisherPrakrit Bharti Academy
Publication Year2004
Total Pages398
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy