SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १२. शृङ्गारशतकाव्यम् स्वयम्भुवो' वृषाऽहीनराजहंससमाश्रिताः । शिवश्रीकान्तधातारो, जयन्ति जगदीश्वराः ॥ १॥ यन्नामस्मरणादपि श्रुतिसुधासारानुकारा नृणां, सर्पन्ति प्रविवादिकोविदमदक्षोदक्षमः सूक्तयः। तां वन्दे बुधवृन्दवन्धचरणां वाग्देवतामुद्धत ध्याऽऽन्ध्यं ध्वंसकरी स्थितां हृदि शरच्चन्द्रोज्ज्वलाङ्गश्रियम् ॥ २ ॥ सुललितपदा: सालङ्कारा विदग्धमनोहराः, . स्फुटरसघनश्लेषाश्छन्दानुवर्तनतत्पराः। प्रकृतिमधुराः शय्यां प्राप्ताः प्रसन्नतया स्वयं, कविजनगिरः कान्ताः कान्ता जयन्ति गुणोज्ज्वलाः॥ ३॥ सन्तोऽसदपि कुर्वन्ति, भूषणं दूषणं परे। एकान्ततस्ततश्चेह, कुतस्त्यस्तत्त्वनिश्चयः॥ ४॥ लक्ष्मीमुक्तोऽपि देवादुदितविपदपि स्पष्टदृष्टाऽन्यदोषो प्यज्ञावज्ञाहतोऽपि क्षयभृदपि खलालीकवाक्याकुलोऽपि। नैव त्यक्त्वाऽऽर्यचर्यां कथमपि सहजां सज्जनोऽसज्जनः स्यात्, किं कुम्भः सातकौम्भः क्वचिदपि भवति त्रापुषो जातुषो वा ॥५॥ नास्ते मालिन्यभीतेरखिलगुणगणः सन्निधानेऽपि येषां, येषां सन्तोषपोषः सततमपि सतां दूषणोद्घोषणेन। १. गुरुशिष्योपदेशरहितः २. पुण्यपूर्णप्रधाननृपैः सेविताः, वृषभशेषमरालासीनाः निर्मलचारित्रधारिणः, ३. रुद्रविष्णुब्रह्माणः ४. जिनेन्द्राः, जगन्नाथाः, ५. अविद्यमानपि कुत्रचिद् दृश्यमानं दूषणं भूषणं कुर्वन्ति, अन्यथा तत्त्वनिश्चयः कथंकारं स्यादिति योजना। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002681
Book TitleJinvallabhsuri Granthavali
Original Sutra AuthorVinaysagar
Author
PublisherPrakrit Bharti Academy
Publication Year2004
Total Pages398
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy