________________
जिनवल्लभसूरि-ग्रन्थावलि
संविग्नाः सोपदेशाः श्रुतनिकर्षाविदः क्षेत्रकालाद्यपेक्षानुष्ठानाः शुद्धमार्गप्रकटनपटवः प्रास्तमिथ्याप्रवादाः । बन्धाः सत्साधवोऽस्मिन्नियम-शम- दमौचित्य-गाम्भीर्य-धैर्यस्थैर्योदार्यार्यचर्या विनय-नय- दया- दाक्ष्य - दाक्षिण्यपुण्याः ॥ ३७ ॥
बिभ्राजिष्णुम गर्वमस्मरमनाशादे श्रुतोलँङ्घने, सज्ज्ञार्नद्युमणिं जिनं वरवपुः श्रीचैन्द्रिकाभैश्वरम् । वन्दे वैर्ण्यमनेकधाऽसुरनरै: शक्रेण चैर्नच्छिदं, दम्भारिं विदुषां सदा सुवचसानेकान्तरङ्गप्रदम् ॥ ३८॥* जिनपतिमतदुर्गे कालतः साधुवेषैविषयिभिरभिभूते भस्मकम्लेच्छसैन्यैः । स्ववशजडजनानां शृङ्खलेव स्वगच्छस्थितिरियमधुना तैरप्रथि स्वार्थसिद्ध्यै ॥ ३९॥ सम्प्रत्यप्रतिमे कुसङ्घवपुषि प्रोज्जृम्भिते भस्मकम्लेच्छातुच्छबले दुरन्तदशमाश्चर्ये च विस्फूर्जति । प्रौढिं जग्मुषि मोहराजकटके लोकैस्तदाज्ञापरैरेकीभूय सदागमस्य कथयापीत्थं कदर्थ्यामहे ॥ ४० ॥
इति श्रीसङ्घपटकः
१. ' अनासादं' इति ल० टी० अ० ।
* चक्रबन्धमिदं काव्य 'जिनवल्लभगणिनेदं चक्रे '
Jain Education International
-
इति सूचितम् ।
For Private & Personal Use Only
९३
www.jainelibrary.org