SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ९० सङ्घपट्टकः जिनमतविमुखविहितमहिताय न मजनमेव केवलं, किन्तु तपश्चरित्रदानाद्यपि जनयति न खलु शिवफलम् । अविधिविधिक्रमाज्जिनाज्ञापि ह्यशुभशुभाय जायते, किं पुनरिति विडम्बनैवाहित-हेतुर्न प्रतायते ॥ १९ ॥ जिनगृह-जैनबिम्बं जिनपूजन-जिनयात्रादिविधिकृतं, दान-तपोव्रतादि गुरुभक्ति श्रुतपठनादि चादृतम्। स्यादिह कुमत-कुगुरु-कुग्राह-कुबोध-कुदेशनांशतः, स्फुटमनभिमतकारि वरभोजनमिव विषलवनिवेशतः॥२०॥ आक्रष्टं मुग्धमीनान्बडिशपिशितवद्विम्बमादर्श्य जैनं, तन्नाम्ना रम्यरूपानपवरकमठान् स्वेष्टसिद्धयै विधाप्य। यात्रास्त्रामधुपायैर्नमसितक-निशाजागरादिच्छलैश्च, श्रद्धालु म जैनैश्छलित इव शठैर्वञ्च्यते हा !! जनोऽयम्॥ २१ ॥ सर्वत्रास्थगिताश्रवाः स्वविषयव्यासक्त सर्वेन्द्रियाः, वल्गद्गौरवचण्डदण्डतुरगाः पुष्यत्कषायोरगाः। सर्वाकृत्यकृतोऽपि कष्ट मधुनान्त्याश्चर्यराजाश्रिताः, स्थित्वा सन्मुनिमूर्द्धसूद्धतधियः तुष्यन्ति पुष्यन्ति च ॥ २२ ॥ सर्वारम्भपरिग्रहस्य गृहिणोप्येकाशनाद्येकदा, प्रत्याख्याय न रक्षतोरे हृदि भवेत्तीव्रोऽनुतापस्तदा । षट्कृत्वस्त्रिविधं त्रिधेत्यनुदिनं प्रोच्यापि भञ्जन्ति ये, तेषां तु क्व तपः क्व सत्यवचनं क्व ज्ञानिता क्व व्रतम् ।। २३ ।। देवार्थव्ययतो यथारुचिकृते सर्वर्तुरम्ये मठे, नित्यस्थाः शुचिपट्टतूलशयनाः सद्गब्दिकाद्यासनाः। सारम्भाः सपरिग्रहाः सविषयाः सेाः सकांक्षाः सदा, साधुव्याजविटा अहो!! सितपटाः कष्टं चरन्ति व्रतम् ॥ २४ ॥ १. 'प्रसार्यते' इति लक्ष्मीसेनटीकायां। २. 'रक्षितः' इति साधुकीर्तिटीकायां। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002681
Book TitleJinvallabhsuri Granthavali
Original Sutra AuthorVinaysagar
Author
PublisherPrakrit Bharti Academy
Publication Year2004
Total Pages398
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy