SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ धर्मशिक्षाप्रकरणम् [विनयविधि-प्रक्रमः] प्राहुर्दाहकमेव पावकमिव प्रायोऽविनीतं जनं, प्राप्नोत्येष कदाचनापि न खलु स्वेष्टार्थसिद्धिं क्वचित् । तस्मादीहितदानकल्पविटपिन्युल्लासिनिःश्रेयस श्रीसम्बन्धविधानधाम्नि विनये यत्नं विदध्यात् बुधः॥ ३६॥ मूलं धर्मद्रुमस्य धुपतिनरपतिश्रीलताकल्पकन्दः, सौन्दर्याह्वानविद्या निखिलसुखनिधिर्वश्यतायोगचूर्णः। सिद्धाज्ञामन्त्रयन्त्राधिगममणिमहारोहणाद्रिः समस्ता नर्थप्रत्यर्थितन्त्रं त्रिजगति विनयः किं न किं साधु धत्ते? ॥ ३७॥ [पुस्तक-ज्ञान दान-प्रक्रमः] संसारार्णवनौर्विपद्वनदवः कोपाग्निपाथोनिधि मिथ्यावासविसारिवारिदमरुन्मोहान्धकारांशुमान्। तीव्रव्याधिलताशितासिरखिलान्तस्तापसर्पत्सुधा सारः पुस्तकलेखनं भुवि नृणां सज्झानदानप्रपा॥ ३८॥ मिथ्यात्वोदन्वदौर्वे व्यसनशतमहाश्वापदे शोकशङ्का ऽऽतङ्काद्यावर्त्तगर्ते मृतिजननजराऽपारविस्तारिवारि । आधिव्याधिप्रबन्धोद्धरतिमिमकरे घोरसंसारसिन्धौ, पुंसां पोतायमानं ददति कृतधियः पुस्तकज्ञानदानम् ॥ ३९ ॥ शिक्षा भव्यनृणां गंणाय मयकाऽनर्थप्रदैनस्तरुं, दग्धुं वह्निरभाणि येयमनया वर्तेत योऽमत्सरः। नम्यं चक्रभृतां जिनत्वमपि सलब्धा -पादैः परं, रन्ताऽसौ शिवसुन्दरीस्तनतटे रुन्द्रे नरः सादरम्॥ ४० ॥* समाप्तं धर्मशिक्षाप्रकरणम् १. 'विस्तारवारि' अ०। + 'लब्ध्वाज़े' अ०। * आद्यपद्यवदत्रापि 'गणिजिनवल्लभचनमदः' इत्यनेन वाक्येन चक्रबन्धकाव्ये प्रकटितं स्वाभिधानं ग्रन्थकृद्भिः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002681
Book TitleJinvallabhsuri Granthavali
Original Sutra AuthorVinaysagar
Author
PublisherPrakrit Bharti Academy
Publication Year2004
Total Pages398
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy