SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ जिनवल्लभसूरि-ग्रन्थावलि [क्षान्ति-प्रक्रमः] प्रीत्या भीत्या च सर्वं सहति किल शठोऽप्यश्नुते चेष्टमेवं, कार्यं कुर्यात् क्षमी यन्न तदिह कुपितः स्पष्टमेतज्जनेऽपि । तस्मादप्युग्ररागद्विषि मिषति रिपौ सर्वशास्त्रोदितायां, सर्वाभीष्टार्थलाभप्रभवकृति सदा वर्तितव्यं क्षमायाम् ॥ २० ॥ दशविधयतिधर्मस्यादिमं क्षान्तिरङ्ग, विमलगुणमणीनां रोहणाद्रिः क्षमैव। तदिति कुशलवल्लिप्रोल्लसल्लास्यलीला, कुसुमसमयमुच्चैर्धत्त रोषप्रमोषम् ॥ २१ ॥ [दान्ति-प्रक्रमः] विद्याकन्दासिदण्डः कुगतिसुरगृह-प्रोल्लसत्केतुदण्डः, प्रद्वेषश्लेषहेतुः सुगतिजलधि-'निस्तारविस्तीर्णसेतुः। शस्त्रं सत्सङ्गरज्वा व्यसनकुलगृहं रागयागाग्र्ययज्वा, हाऽरिष्टं शिष्टतायाः करणवशगता तद्दमेऽतो यतध्वम्॥ २२॥ प्रेङ्खत्खङ्गा-ग्रभिन्नोत्कटकरटिघटाकुम्भकीलालकुल्या, वेगव्यस्त-भ्रकुद्युद्भटभटपटलीलूनचक्राम्बुजानि । क्रुद्धोद्धावत्कबन्धव्यतिकरविफलायस्तशस्त्राण्यभीक्ष्णं, भूयांसः प्रापुरत्र क्षयमिति करणैः कार्यमाणा रणानि ॥ २३ ।। [शान्ति-प्रक्रमः] मानः सम्मानविघ्नः स्फुटमविनयकृत्क्रोधयोधः प्रबोध ध्वंसी वैरानुबन्धी प्रणयविमथनी सव्यपाया च माया। लोभः सक्षोभहेतुर्व्यसनशतमहाधामकामोऽपि वामो, व्यामोहायेति जित्वाऽन्तरमरिविसरं स्वस्य शान्तिं कुरुध्वम्॥ २४॥ १. 'ऽर्थर्थि तद्यत्' मु०। ४. 'प्रेडद्वजाग्र' मु०। २. 'गृहे' अ०। ५. 'न्यस्त' मु०। ३. 'निधिस्ता' अ० । ६. 'वक्त्राम्बुजानि' अ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002681
Book TitleJinvallabhsuri Granthavali
Original Sutra AuthorVinaysagar
Author
PublisherPrakrit Bharti Academy
Publication Year2004
Total Pages398
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy