SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ जिनवल्लभसूरि-ग्रन्थावलि [ अर्थे विरक्ति-प्रक्रमः ] त्वग्भेदच्छेदखेदव्यसनपरिभवाप्रीतिभीर्ति-प्रमीति क्लेशाविश्वासहेतुं प्रशमदमदयावल्लरी धूमकेतुम् । अर्थं निःशेषदोषाङ्करभरजननप्रावृषेण्याम्बु धृत्वा, लूत्वा लोभप्ररोहं सुगतिपथरथं धत्त सन्तोषपोषम् ॥ १० ॥ निद्रामुद्रां विनैव स्फुटमपरमचैतन्यबीजं जनानां, लक्ष्मीरक्ष्णोऽन्धभावः प्रकटमपटलः सन्निपातोऽत्रिदोषः । किञ्च क्षीराब्धिवासिन्यभजदियमपां सर्पणान्नीचगत्वं, कल्लोलेभ्यश्चलत्वं स्मृतिमतिहरणं कालकूटच्छटाभ्यः ॥ ११ ॥ [ तत्त्वे प्रीति प्रक्रमः ] जीवा भूरिभिदा अजीवविधयः पञ्चैव पुण्यास्रवौ, भिन्नौ षड्गुणसप्तधा प्रकृतयः पापे द्व्यशीतिः स्मृताः । भेदान् संवरबन्धयोः पृथगथाऽऽहुः सप्तपञ्चाशतं, मोक्षो देशविनिर्जरेति च नव श्रद्धत्त तत्त्वानि भोः ॥ १२ ॥ सर्वज्ञोक्तमिति प्रमाघटितमित्यक्षोभ्यमन्यैरिति, न्यायस्थानमिति स्फुटक्रममिति स्याद्वादधीभागिति । युक्त्या युक्तमिति प्रतीतिपदमित्यक्षुण्ण - लक्ष्मेति सत्, सप्त द्वे नव चेत्यवेत्त बहुधा तत्त्वं विवक्षावशात् ॥ १३ ॥ [ गुरुषु प्रतीति- प्रकमः ] सम्यग्ज्ञानगरीयसां सुवचसां चारित्रवृन्दीयसां, तर्कन्यायपटीयसां शुचिगुणप्राग्भारबृंहीयसाम् । विद्यामन्त्रमहीयसां सुमनसां भव्यव्रजप्रेयसां, ८१ धत्तोच्चैस्तपसां विकाशियशसां सम्यग्गुरूणां गिरः ॥ १४॥ १. 'नीतिप्र' अ० । ३. 'किञ्चित्' अ० । Jain Education International २. 'लक्ष्मी तृष्णौघभावः' अ० । ४. ' क्षोभ्यं' अ० । For Private & Personal Use Only www.jainelibrary.org
SR No.002681
Book TitleJinvallabhsuri Granthavali
Original Sutra AuthorVinaysagar
Author
PublisherPrakrit Bharti Academy
Publication Year2004
Total Pages398
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy