SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ .. धर्मशिक्षाप्रकरणम् तद्गेहे प्रस्तुतस्तन्यभिलषति मुदा कामधेनुः प्रवेष्टं, चिन्तारनं तदीयं श्रयति करमभिप्रैति तं कल्पशाखी। स्व:श्रीस्तत्सङ्गमाय स्पृहयति यतते कीर्तिकान्ता तमातुं, तं क्षिप्रं मोक्षलक्ष्मीरभिसरति रतिर्यस्य चैत्यार्चनादौ ॥ ५ ॥ [तपसि शक्ति-प्रक्रमः] चक्रे तीर्थकरैः स्वयं निजगदे तैरेव तीर्थेश्वर श्रीहेतुर्भवहारि दारितरुजं सन्निर्जराकारणम्। सद्यो विघ्रहरं हृषीकदमनं माङ्गल्यमिष्टार्थकृद्, देवाकर्षणकारि दुष्टदलनं त्रैलोक्यलक्ष्मीप्रदम्॥ ६॥ इत्यादिप्रथितप्रभावमवनीविख्यातसङ्ख्याविदां, मुख्यैः ख्यापितमाशु शाश्वतसुखश्रीक्लृप्तपाणिग्रहम् । आशंसादिविमुक्तमुक्तविधिना श्रद्धाविशुद्धाशयैः, शक्तिव्यक्तिसुभक्तिरक्तिभिरभिध्येयं विधेयं तपः॥ ७॥ युग्मम् [गुणिषु रक्तिप्रकमः] ज्ञानादित्रयवाञ्जनो गुणिजनस्तत्सङ्गमात्सम्भवेत्, स्नेहस्तेषु स तत्त्वतो गुणिगुणैकात्म्याद् गुणेष्वेव यत्। तस्मात्सर्वगसद्गुणानुमननं तस्माच्च सद्दर्शनाद्,' यस्मात्सर्वशुभं गुणिव्यतिकरः कार्यः सदायैस्ततः॥ ८॥ स स्नातश्चन्द्रिकाभिः स च किल मृगतृष्णाजलैरेव तृप्तः, खाजैर्मालां स धत्ते शिरसि से शशशृङ्गीयचापं बिभर्ति । मथ्नात्येष स्थवीय:स्थलतलसिकतास्तैलहेतोर्य उज्झन्, सङ्गं ज्ञानक्रियावद्गुणिभिरपि परं धर्ममिच्छेच्छिवाय ॥ ९ ॥ २. 'तस्मात्' अ०। १. 'सद्दर्शनं' अ०मु०। ३. 'शशकणं' अ०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002681
Book TitleJinvallabhsuri Granthavali
Original Sutra AuthorVinaysagar
Author
PublisherPrakrit Bharti Academy
Publication Year2004
Total Pages398
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy