SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १०. धर्मशिक्षाप्रकरणम् नत्वा भक्तिनताङ्गकोऽहमभयं नष्टाभिमानक्रुधं, विज्ञं वर्द्धितशोर्णिमक्रमनखं वयं सतार्मिष्टदम्। विद्याचंक्रविभुं जिनेन्द्रसमकृलब्ध्वाऽर्थ पार्दै भवे, वेद्यं ज्ञानवतां विमर्शविशदं धर्म्य पदं प्रस्तुवे॥ १॥* भो भो भव्या ! भवाब्धौ निरवधिविधुरे बम्भ्रमद्भिर्भवद्भि दृष्टान्तैश्चोल्लकाद्यैर्दशभिरसुलभं प्रापि कृच्छ्रान्नरत्वम् । तेद्वत्क्षेत्रादिसामग्र्यपि समधिगता दुर्लभैवेति सम्यग्, मत्वा माहाकुलीनाः कुरुत कुशलतां धर्मकर्मस्वजस्रम्॥ २॥ ततश्चभक्तिश्चैत्येषु शक्तिस्तपसि गुणिजिने संक्तिरर्थे विरक्तिः, प्रीतिस्तत्त्वे प्रतीतिः शुभगुरुषु भवाद् भीतिरुद्धात्मनीतिः। क्षान्तिर्दान्तिः स्वशान्तिसुखहतिरबलावान्तिरभ्रान्तिराप्ते, ज्ञीप्सा दित्सा विधित्सा श्रुत-धन-विनयेष्वस्तु धीः पुस्तके च।। ३ ।। [चैत्येषु भक्ति-प्रक्रमः] व्यपोहति विपद्भरं हरति रोगमस्यत्वं, करोति रतिमेधयत्यतुलकीर्तिधीश्रीगुणान्। तनोति सुरसम्पदं वितरति क्रमान्मुक्ततां, __ जिनेन्द्रबहुमानतः फलति चैत्यभक्तिर्न किम् ॥ ४॥ * चक्रबद्धमिद काव्यम्। 'जिनवल्लभगणिवचनमिदम्' इति वाक्येन चक्रबन्धे स्वाभिधानं ग्रन्थक; सूचितम्। १. 'प्राप्य' अ०। २. 'तच्चेत्' मु० । ३. 'रक्तिः' मु० । 'सक्ति:-अत्यन्तप्रीतिः' इति वृत्तौ। ४. 'मति' अ०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002681
Book TitleJinvallabhsuri Granthavali
Original Sutra AuthorVinaysagar
Author
PublisherPrakrit Bharti Academy
Publication Year2004
Total Pages398
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy