________________
स्तुतिविद्या
शं स नायक निष्ठायाश्चेष्टायायत्र देहि नः । न येनाशं सितं श्रेयः सद्यः सन्नजराजितः ॥३८॥
(युग्मम् ) - शंसेति-प्रौप्ट्यमक्षरमत्र श्लोके नास्ति द्विरावत ते च इति हेतोः। शंसनाय प्रशंसनायै' कनिष्ठायाः अणुभूतायाः। चेष्टायाः कायवाङ -मन:क्रियायाः । यत्र यस्मिन् सर्वज्ञविशेषे । देहिनः प्राणिनः सम्बन्धेन । नयेन अभिप्रायेण । आशंसितं सम्भावितं । श्रेयः पुण्यम्, । सत् शोभनम् । यः यश्च । द्वितीयार्थे व्याख्यायमाने च शब्दोऽतिरेकः सोऽत्र सम्बन्धनीयः । हे अज सर्वज्ञ । राजितः शोभितः । सन् भवन् । उत्तरार्धे क्रिया तिष्ठति तया सम्बन्धः कर्तव्यः ॥३०॥ ' शंसनेति-शं सुखम् । स पूर्वोक्तः । नायकः नेता प्रभुर्वा तस्य सम्बोधनं नायक । निष्ठायाः मोक्षावाप्तेः । च अयं चशब्दः प्राधे एम्यः । इष्टायाः प्रियायाः । अत्रास्मिन् । देहि दीयताम् । नः अस्म. भ्यम् । न । येन । अशं दुःखम् । सितं बद्धम् । श्रेयः श्रेयणीयः सन् । सवः तत्तणादेव । सन्ना विनष्टा जरा वृद्धित्वं यस्यासौ सबजरः तस्य सम्बोधनं हे सन्नजर । अन्यैरजितः अजितः सन् । वान्तःपदैः सर्वत्र सम्बधनीयः । समुदायार्थः यस्मिन् सर्वज्ञविशेष प्राणिभिः स्तुति. गात्राद्वा पुष्पखण्डाहा पुण्यं भावितं सत् प्रशंसायै भवति यश्च राजितः। पुष्पदन्त इति उत्तर श्लोके तिष्ठति सोत्र सम्बन्धनीयः । स त्वं श्रेयः सन् हे पुष्पदन्त अज अस्मभ्यं शं देहि, येन सुखेन दुःखं सितं बन भवति तत्सुखं देहीस्युक्तं भवति ॥३८॥ ___ अर्थ-जो अन्तरङ्ग और बहिरङ्ग लक्ष्मीसे शोभायमान हैं, जो सबके द्वारा मेय-सेवनीय हैं और जो (विश्वकी किसी अन्य शक्तिसे ) अपराजित हैं-जीते नहीं जा सके हैं ऐसे अंत्यन्त श्रेष्ठ, जन्मरहित और सर्वप्रिय मोक्षलक्ष्मीके प्रसिद्ध
प्रथमान्तः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org