________________
समन्तभद्र-भारती
याग्भूतस्तृतीयः तादृशश्चतुर्थोपि अयते इति सर्वपादेषु समानं यतः अतो भवति पादाभ्याससर्वपादान्तयमकः ।
गायत: स्तुतिं कुर्वतः। के गैरै शब्दे इत्यस्य धोः शत्रन्तस्य प्रयोगः । महिमा माहात्म्यम् । अयते गच्छति । गाः वाणीः, गो इत्यस्य शसन्तस्य रूपम् । यत: यस्मात् । महिमानं अयते महिम्नायते स्म वा महिमायः तस्य सम्बोधनं हे महिमाय । ते तव । पद् पादः । दृश्यते च पच्छब्दस्य बोके प्रयोग: गौः पदा न सृष्टव्या। मया अस्मदः भान्तस्य प्रयोगः । सः तदः वान्तस्य रूपम्। हि निपातोऽयं स्फुटार्थे । तायते विस्तार्यते । तस्य पादस्य गुगणाः विस्तार्यन्ते तेषां विस्तारे सति पादस्यापि विस्तारः कृतः । गुणगणिनोरभेदः । पद्मया लक्ष्म्या सहिता श्रायतिः शरीरायामः यस्यासौ पद्मयासहितायति: गमकत्वात्सविधिः । यथा देवदत्तस्य गुरुकुलम् । यथायं गुरुशन्दोन्यमपेक्षते एवं सहित शब्दोपि । अथवा पनेषु यातीति पनयाः । सह हितेन घर्तत इति सहिता प्रायतिः प्राज्ञा। सहिता प्रायतिर्यस्यासौ सहितायति: पदयाश्चासौ सहितायतिश्च पद्मयासहितायतिः । तस्य सम्बोधनं हे पद्मयासहितायते । किमुक्त भवति-हे महिमाय पद्मया सहितायते ते पदं गायत: महिमा' प्रयते गाः यतः ततो मया स हि पद् तायते विस्तार्यते स्तूयते इत्यर्थः ॥१५॥
अर्थ-हे भगवन् ! आप स्वयं माहात्म्यको प्राप्त हैं, आपका शरीर भी लक्ष्मीसे-अनुपम सौन्दर्यसे-सहित है। अथवा आप कमलोंपर विहार करते हैं-विहार करते समय देव लोग आपके चरणोंके नीचे कमलोंकी रचना करते हैं और आपकी आज्ञा भव्यजीवोंका हित करने वाली है। हे प्रभो ! जो आपका गुणगान करता है उसकी वाणीको महत्त्व प्राप्त होता है
१ महिमा गाः अयते इत्यनेन महिम्नः स्तुतिविषयत्वमुक्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org