________________
स्तुतिविद्या नतपीलेति । प्रथमपादस्य पञ्चाक्षराणि अभ्यस्तानि पुनरुच्चारितानि द्वितीयपादश्च समस्तः पुनरुच्चारितः । नतानां प्रणतानां पीला व्याधयः डोलो वा इति लत्वन्ताः अस्यतीति नतपीलासनः । तस्य सम्बोधन हे मतपीलासन । न विद्यते शोको यस्यासावशोकः तस्य सम्बोधनं हे अशोक । शोभनं मनोविज्ञानं यस्य सः सुमनाः तस्य सम्बोधनं हे सुमनः अव रक्ष अथवा वा समुच्चये दृष्टव्यः। हे ऋषभ श्रादितीर्थकर । श्रासितः स्थितः सन् । भामण्डलं प्रभामण्डलं, श्रासनं सिंहासनं, अशोकः अशोकवृक्षः, सुमनसः पुष्पाणि तेषां वर्ष सुमनो वर्ष पुष्पवृष्टिरित्यर्थः, तेषां द्वन्द्वः तैर्भासितः शोभित: भामण्डलासनाशाकसुमनोवर्षभासितः सन् । किमुक्त भवति-हे ऋषभ अव इत्यादि अथवा हे भटारक यदा त्वं स्थित: तदा एवं विधः सन् स्थितगतश्च त्वं यदा तदा एवंप्रकारैर्गतः । पक्ष्यमाणश्लोकेन सह सम्बन्धः ॥२॥
दिव्यैरिति । क्रिया पुनः तृतीयपादे गुप्ता दिन्यैरित्यत्र । अथवा मुरजबन्ध एवं दृष्टव्यः तद्यथा-चतुरोपि पादानधोधो व्यवस्थाप्य प्रथमपादस्य प्रथमाक्षरेण तृतीयपादस्य द्वितीयाक्षरं, तृतीयपादस्य प्रथमाक्षरं प्रथमपादस्य द्वितीयाक्षरेण सह गृहीत्वा एवं नेतव्यं यावत्परिसमातिः । पुनर्द्वितीयपादस्य प्रथमाक्षरं चतुर्थपादस्य द्वितीयाक्षरेण, चतुर्थपादस्य प्रथमाचरेण सह द्वितीयपादस्य द्वितीयाक्षरं च गृहीत्वा पुनरनेन विधानेन तावन्नेतव्यं यावत्परिसमाप्तिर्भवति । ततो मुरजबन्धः स्यात् ।
दिवि भवानि दिव्यानि अतस्तैर्दिव्यः द्वन्द्व कृत्वा ध्वनिसितछन. चामरैः पुनरपि दुन्दुभिस्वनैः दिव्यैरिति प्रत्येक समाप्यते । दिवि प्राकाशे ऐ: गतवान् इण् गतावित्यस्य धोः लडन्तस्य रूपम् । विनिर्मितानि कृतानि स्तोत्राणि स्तवनानि विनिर्मितस्तोत्राणि तेषु । श्रमः अभ्यासः । नानाप्रकारेण मधुररवेण (स्वरेण) कृतस्तवनमित्यर्थः विनिर्मितस्तोत्रश्रमः स एव ददुः वाद्यविशेषः विनिर्मितस्तोत्रश्रमददुरः । स येषामस्ति ते
Jain Education International
For Private & Personal Use Only
'www.jainelibrary.org