________________
समन्तभद्र-भारती
बहूनामपि समानाचराणां प्रवेशो भवति । श्रतो गृढपश्चार्द्धाऽप्ययं भवति । एवमेव जातीयाः श्लोका मृग्याः ।
धिया बुद्ध्या । ये यदो रूपं । श्रितया श्राश्रितया सेन्यया इत्यर्थः । इता, विनष्टा श्रति: मनः पीडा यस्याः सेयमितातिः तया । यान् यदः शसंतस्य प्रयोगः । उपायान् उपपूर्वस्य श्रयगतौ अस्याजन्तस्य रूपं उपगम्यानित्यर्थः : । वराः प्रधानाः इन्द्रादयः नताः प्रणताः । ये च वक्ष्यमा'णेन च शब्देन सह संबन्धः । न विद्यते पापं येषां ते अपापाः शुद्धाः कर्मरहिता इत्यर्थः । यातं पारं यैस्ते यातपाराः श्रधिगतसर्वपदार्थाः इत्यर्थः । ये च श्रीलक्ष्मीस्तया श्रायातान् श्रतन्वत तनु विस्तारे इत्यस्य धोलुङन्तस्य रूपम् । यथा द्रव्येण राजानः आश्रितान् विस्तारयन्ति उत्तरत्र क्रियापदं तिष्ठति तेन सह सम्बन्धः ॥३॥
9
आसत इति । श्रसते श्रास उपवेशने इत्यस्य घोः लङन्तस्य प्रयोगः । सततं सर्वकालं । ये च च शब्दः समुच्चये, यदः प्रयोगान् जसन्तान् समच्चिनोति पूर्वप्रक्रान्तान् । सति शोभने सतः ईबन्तस्व रूपम् । न विद्यते क्षयः विनाशो यस्यासावत्तयः । श्रालयः श्रवस्थानम् | अक्षयश्चासावालयश्च अक्षयालयः, पुरुश्चासावचयालयश्च पुर्वक्षयालय तन् पुर्वक्षयालये । ते तदः प्रयोगोऽयम्, यदः प्रयोगानपेक्षते । पु ददते इति पुण्यदाः । रतेनायातः रतायातः श्रतस्तम् । रागेणागतं भक्त्य
मित्यर्थः । सर्वदा सर्वकालं । मा श्रस्मदः इवन्तस्य प्रयोगः । अभिरक्ष क्रियाम् । श्रभिपूर्वस्य 'रक्ष पालने' इत्यस्य धोः लोडन्तस्य प्रयोग: तं इति श्रभिरचत इति च यदो रूपेण जसन्तेन सह प्रत्येकमभिसम्ब ध्यते । किमुक्तं भवति - वराः यान् उपायान् नताः प्रणताः धिया, हिं विशिष्टया त्रितया, पुनरपि इताय । किमुक्त भवति - प्रेक्षापूर्व कारिभि ये स्तुताः ते मा रतायातं अभिरक्षत, ये च श्रपापा ये च यातपाराः ये श्रिया श्रायातान् प्रणतान् श्रतन्वत विस्तारयन्तिस्म ये च सति पुर्वक्षय लये सिद्धत्व पर्याये सततं श्रासते ये च पुण्यदाः ते यूयं मा सर्वदा रते भक्त्यागतं श्रभिरक्षत पालयत इत्युक्त भवति || ४ ||
JS
Jain Education International
+
For Private & Personal Use Only
www.jainelibrary.org