________________
स्तुतिविद्या भावार्थ-जिनेन्द्रकी आराधना करनेवाले मनुष्य की आत्मा आत्मीय तेजसे जगमगा उटती है,वह सर्वोत्कृष्ट पुरुष गिनाजाने लगता है तथा उसके महान पुण्यका बन्ध होता है। यहां प्राचार्य समन्तभद्रने भगवान्की आराधना कर अपने आपको उसके फल का अधिकारी बतलाया है। यहां परिसंख्याके साथ काव्यलिङ्ग' अलंकार भी है ।।११४||
(चक्रवृत्तम् ) जन्मारण्यशिखी स्तवः स्मृतिरपि क्लेशाम्बुधेनौं : पदे । भक्तानां परमौ निधी प्रतिकृतिः सर्वार्थसिद्धिः परा । वन्दीभूतवतोपि' नोन्नतिहतिर्नन्तुश्च येषां मुदा । दातारो जयिनो भवन्तु वरदा देवेश्वरास्ते सदा ॥११॥
जन्मेति-जन्म संसारः, अरण्यं अटवी, शिखी अग्निः, जन्मेवा. रण्यं जन्मारण्यम्,जन्मारण्यस्य शिखी जन्मारण्यशिखी । स्तवः गुणस्तवनम् । स्मृतिरपि स्मरणमपि । क्लेशाम्बुधेः दुःखसमुद्रस्य नौः पोतः । पदे पादौ । भक्तानामनुरक्तानां । परमौ श्रेष्ठो । निधी द्रव्यानिधाने । प्रतिकृति: प्रतिबिम्बम् । सर्वार्थानां सकलकार्याणां सिद्धि : निष्पत्तिः सर्वार्थसिद्धिः । परा प्रकृष्टा । वन्दीभूतबतोपि मंगलपाठकीभूतवतोपि नग्नाचार्यरूपेण भवतोपि ममेत्यर्थः । न प्रतिषेधवचनम् । उन्नतः माहात्म्यस्य हतिः हननं उन्नतिहतिः । नन्तुश्च स्तोतुश्च । येषां यदः
१ 'हे तोक्यपदार्थत्वे काव्यलिंगं निगद्यते' -साहित्यदर्पण
जहां हेतु ब्राय अथवा पदार्थगत होता है उसे 'काव्यलिङ्ग' कहते हैं। वाक्यगत
२ ममेति योजनीयम् । ३ जायमानस्यापि मम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org