________________
समन्तभद्र-भारती
वन्देति - परं चक्रं भूमौ फलके या व्याक्षिस्य त्रयः पादाः परमध्ये स्थाप्याः । चतुर्थपादो नेमिमध्ये एवं च सर्वचक्रवृचानि रहव्यानि ।
१३२
वन्दारवः वन्दनशीला प्रबलं प्रचुरं श्राजवंजवः संसारः भयं भीः प्राजथंजवाद्भयं श्राजवंजवभयं प्रबलं च तत् श्राजवंजवभयं च तत् प्रच बाजवं जवमयं । वन्दारूणां प्रबलाजवंजवभयं वन्दारुप्रवलाजचं जवभयं । तत् प्रध्वंसयति विनाशयतीत्येवंशीलं वन्दारुप्रबलाजवंजवभयप्रध्वंसि । प्रभोर्भाव: प्राभवम् । गोर्वाण्याः प्राभवं प्रभुत्वं गोप्राभवं वाणीमाहात्म्य - मित्यर्थः । वन्दारुप्रबल जवंजवभयप्रध्वंसि गोप्राभवं यस्यासौ वन्दारुप्रबलाजचंजयभयप्रध्वंसिगोप्राभवः तस्य सम्बोधनं वन्दारुप्रबलाजवं जयभयप्रध्वंसिगोप्राभव । वर्द्धिष्णो वद्ध नशील । गुणा एव श्रवो गुणार्णवः विलसन् शोभमानो गुणार्णवो गुणसमुद्रो यस्यासौ विलसद्गुणार्णवः तस्य सम्बोधनं चिल्लसद्गुणार्णव । निर्वाणस्य मोक्षस्य हेतुः कारणं निर्वा यहेतुः । जगतां भव्यलोकानां निर्वाणहेतुः जगन्निर्वाण हेतुः । तस्य सम्बोधनं हे जगनिर्वाण हेतो । शिव परमात्मन् वन्दीभूताः मङ्गलपाठकीभूताः समस्ताः देवाः विश्वे सुरवराः यस्यासौ वन्दीभूतसमस्तदेवः तस्य सम्बोधनं हे वन्दीभूतसमस्तदेव । वरद इष्टद । प्राज्ञानां मतिमतां एक: प्रधानः प्राज्ञैकः । दक्षाणां विचक्षणानां स्तवः स्तुतिवचनं यस्यासौ दक्षश्रथवा दक्षैः स्तूयते इति दक्षस्तवः प्राज्ञ कश्चासौ दसस्तवश्च प्राज्ञ कदक्षस्तवः तस्य सम्बोधन प्राज्ञ कदतस्तव । वन्दे स्तुवे । स्वा भवन्तम् । श्रवनतः प्रणतः । वरं श्र ेष्ठम् । मवमिदं संसारस्य भेदकम् । हे वर्य शोभन । एक: वन्द्यः एकवन्द्यः तस्य सम्बोधनं हे एकवन्ध । संसारित्वेन न भवति इत्यभवः तस्य सम्बोधन हे श्रभव । एतदुक्त भवति - हे व मान भट्टारक ! सम्बोधनान्तानि सर्वाणि विशेषणानि श्रस्यैव भवन्ति । वन्दे श्रवनतो भूत्वाऽहं स्वा किं विशिष्टं वरं भवमिदम् इति ॥ ११० ॥
स्तव:
अर्थ- हे भगवन् ! जो आपको नमस्कार करते हैं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org