________________
१२८
समन्तभ-भारती
(बमकः ) कोविदो भवतोपीड्यः सुरानत नुतान्तरम् । शंसते साध्वसं सारं स्वमुद्यच्छन्नपीडितम् ॥१०७॥ कोविदेति-कोविदः विचक्षणः। भवतः संसारात् । अपीय अबाधितः । हे सुरानत देवैः प्रणत । नुतान्तरं स्तुतिविशेषम् । शंसते प्राचष्टे । साध्वसं सम्भ्रमम् । सारं फलवत् । स्वं प्रात्मानं । उद्यच्छन् वहन विभ्रत् । ईडितमपि पूजाविधानमपि । अथवा ईडितं नुतान्तरं इति सम्बन्धः । समुदायार्थः - हे सुरानत योऽयं कोविदो जनः भवादपोख्य सन् नुतान्तरं शंसते पाचष्टे स्वं साध्वसं सारं ईरितमपि उद्यच्छन् यस्मात् तस्मादहं स्तुतिविशेषेण तुभ्यं नतः ॥१०॥
अर्थ-हे देवविनत ! जिनेन्द्र ! जो बुद्धिमान पुरुष आप. की स्तुति तथा पूजा-विधान करता है उसका श्रात्मा शीघ्र ही सफल हो जाता है और वह संसारके दुःखोंसे पीडित नहीं होता-जन्म-मरणके दुःख नष्ट कर मोक्ष प्राप्त कर लेता है।
भावार्थ-हे भगवन् ! मैं भी तरह-तरहके स्तोत्रोंसे आपकी स्तुति कर रहा हूँ अतः मुझे भी मोक्षसुख प्रदान कीजिये ॥१०७॥
(समुद्गकयमक: ) 'अभीत्यावर्द्ध मानेनः श्रेयोरुगरु संजयन् ।
अभीत्या वर्धमानेन श्रेयोरुगुरु संजयन् ॥१०॥ अभीत्येति-प्रभीत्य मम चेतस्यागत्य । अव रक्ष। ऋद्ध वृद्ध । मा अस्मदः इबन्तस्य रूपम् । अनेनः हे अपाप । श्रेयः सुखं । रुगुरु
अमोत्य+अब+ऋद्ध, मा+अनेनः: श्रेयः+गुरु ( रुवा उरु ), वर्षमान+ इन,श्रेयः+रुगुः (वित) इति पदच्छेदाः । 'सूर्याश्वमेंसजावत: गुरवः शार्दूलविक्रीडितम्' (बरनाकरे )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org