________________
स्तुतिविण नेमि-जिन-स्तुतिः
(दूधचरश्लोकः) मानोनानामनूनानां मुनीनां मानिनामिनम् । मनूनामनुनौमीमं नेमिनामानमानमन् ॥१७॥ मानोनेति-मकारनकाराक्षरैर्विरचितो यतः । मानोनानां मर्व. हानानां । अनूनानां अहीनानां चारित्रसम्पूर्णानामित्यर्थः । मुनीनां साधूनां । मानिनां पूजितानां । इनं स्वामिनं । मनूनां ज्ञानिनां । मनु शब्दोऽयं मन ज्ञाने इत्यस्य धोः पौर्णादिकत्यान्तस्य रूपम् । अनुनौमि सुष्टु स्तौमि । इमं प्रत्यक्षवचनं । नेमिनामानं अरिष्टनेमिनाथम् । मानमन प्रणमन् । अहमिति संबन्धः । समुदायार्थः-इमं नेमिनामानं किं विशिष्टं इन स्वामिन केषां मुनीनां किं विशिष्टानां मानोनानाम् अननानां मानिनां मनूनां पानमन्नहं अनुनौमि ||१७||
अर्थ-मैं (समन्तभद) अहंकार-रहित, उत्कृष्ट एवं सम्पूर्ण चारित्रके धारक, पूज्य और ज्ञानवान मुनियोंके स्वामी भगवान् नेमिनाथको मन-वचन-कायसे पुनः पुनः नमस्कार करता हुआ उनकी निरन्तर स्तुति करता हूँ ॥१७॥
(अनुलोमप्रतिलोमैकश्लोकः ) . तनुतात्सद्यशोमेय शमेवार्य्यवरो गुरु ।
रुगुरो वर्दी वामेश यमेशोद्यत्सतानुत ॥९८॥ · तनुतादिति--गतप्रत्यागत इत्यर्थः । तनुतात् कुरुतात् सद्यशः शोभन• कीर्ते । अमेय अपरिमेय । शमेव सुखमेव । आर्याणां प्रधानानां वरः श्रेष्ठः प्रार्यवरः स्वमिति सम्बन्धः । गुरु महत् सुखेन सम्बन्धः । रुचा दीप्पया उरुः महान् रुगुरुः तस्य सम्बोधनं हे रुगुरो दीप्त्या महत् । वर्य प्रधान । वामेश शोभनेश । यमेश व्रतस्वामिन् | उद्यत्सतानुत उद्योगवता पण्डितजनेन नुत्त स्तुत । एवं सम्बन्धः कर्तव्य:- हे नेमिनाथ सघशः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org