________________
५०८
षड्दर्शनसमुच्चये न भुङ्क्ते रानाववश्यं भुङ्क्त इत्यर्थापत्तिः प्रमाणम् ॥७५॥ यत्र वस्तुरूपेऽभावादौ पदार्थे पूर्वोक्तप्रमाणपञ्चक न वर्तते तत्राभावप्रमाणता ज्ञेया । किमर्थम् । वस्त्वसत्ताव [स्तुसत्यव]बोधार्थम्, वस्तुनो भावस्वरूपस्य मुण्डभूतलादेः सत्ता घटाद्यभावः [व]सद्भावः तस्यावबोधः प्रामाणिकतयात(प)थावतरणं तावतरणं] तदर्थं तद्धेतोः । ननु अभावस्य कथं प्रामाण्यम् । प्रत्यक्षं तावद् भूतलमेवेदं घटादि न भवतीति अन्वयद्वारेण [अन्वयव्यतिरेकेण द्वारेण] वस्तुपरिच्छेदः, तदधिकमभावैकरूपं निराचष्टे । नैवं घटाभावप्रतिबद्धभूतलग्रहणासिद्धेः नास्तिताग्रहणावसरे प्रामाण्यमेव भावस्य मानसोत्पन्नम् ॥७६॥ उपसंहरन्नाह । अपिशब्दात् केवल मपरदर्शनानां जैमिनीयमतस्यापि कथितः । वक्तव्यस्य बाहुल्या[बहुत्वा]ट्टीकामात्रे सामस्त्यकथनायोगात् । एवमामित्थमा]स्तिकवादिनाम् इह परलोकगतिपुण्यपापास्तिक्यवादिना बौद्ध नैयायिकसांख्यजनवैशेषिकजैमिनीयानां संक्षेपकीर्तनं कृतम् ।।७७॥ विशेषान्तरमाह । अन्ये आचार्याः नैयायिकमताद् वैशेषिकैः सह भेदं न मन्यन्ते । दर्शनाधिष्ठात्रैकदैवतत्वात् । पृथग्दर्शनं नाभ्युपगच्छन्ति तेषां मतापेक्षया आस्तिकवादिनः पञ्चैव । दर्शनानां षट्संख्या कथं फलवतीत्याह ॥७८॥ तन्मते नैयायिकवैशेषिकाभेदमन्यमानकाचार्यमते षड्दर्शनसंख्या लोकायितमतक्षेपात् पूर्यते । तु पुनरर्थे । किलेत्याम्नाये। तेन कारणेन तन्मतं चार्वाकमतं कथ्यते ॥७९॥ लोकायिता नास्तिका एवममुता प्रकारेण वदन्ति-देवः सर्वज्ञादिः निर्वृतिर्मोक्षः, धर्मश्च अधर्मश्च द्वन्द्वः, पुण्यपापयोः फलं स्वर्गनरकादिकं च नास्ति । धर्माधर्माभावे कौतस्कृतं तत्फलम् ॥८॥ तन्मते लोकायि[य]तमते अयं लोकः संसारः एतावन्मात्र एव यावन्मात्र इन्द्रियगोचरः । इन्द्रियं पञ्चविधम्, तस्य गोचरो विषयः, पञ्चन्द्रियव्यक्तीकृतमेव वस्त्वस्ति नापरम् । लोकग्रहणात् लोकस्थपदार्थग्रहः । अपरे पुण्यपापसाध्यं स्वर्गनरकाद्याहुः । तदप्रमाणं प्रत्यक्षाभावादेव । अप्रत्यक्षमपि चेन्मतम्; सदा शशशृङ्गवन्ध्यास्तनन्धयादीनामपि भावोऽस्तु । दृष्टान्तमाहयथा कश्चित्पुरुषो वकपददर्शनकुतुहलां दयितां समीरणसमीकृतपांशुप्रकरे कराङ्गल्या वृकपदाव मुग्धामवादीत्-भद्रे वृकपदं पश्य । तथा परवञ्चनप्रवणा मायाधार्मिका स्वर्गादिप्राप्तये तपश्चरणाद्युपदेशेन मुग्धजनं प्रतारयन्ति ।।८१॥ परमार्थवेदिन इदं वाक्यम्-यदतीतं यौवनादि तन्न ते। किन्तु जराजीर्णत्वादि भावि । हे भीरु, गतम् इह भवातिक्रान्तं सुखयौवनादि परलोके न ढोकते भूतानां समुदयो मेल:[ऽन्तः] तन्मात्रम्, केवलं [कलेवरं] भूतचतुष्टयाधिक स्याभावान्न च पूर्वभवादिसंबन्धः शुभाशुभाकर्मजन्यान्यः] ॥८२॥ पृथ्वी जलमिति, पृथ्वी भूमिः, जलमापः, तेजो वह्निः, वायुः पवनः एतानि चत्वारि भूतानि एतेषामाधारोऽधिकरणभूमिः भूतानि संभूय एकं चैतन्यं जनयन्ति । एतन्मते प्रमाणम्, प्रत्यक्षमेव एकं प्रमाणं न पुनरनुमानादिकम् । हि शब्दोऽत्र विशेषार्थो वर्तते । विशेषः पुनश्चार्वाकैः लोकयात्रानिर्वाहणप्रवणं धूमाद्यनुमानमिष्यते । क्वचन, म पुनः स्वर्गादृष्टादिप्रसाधकमलौकिकमनुमानमिति । चैतन्यमाह । पूर्वाधं सुगमम् । एतेषां चार्वाकाणां चेतनोत्पत्तिकारणं भूतचतुष्टयम् । चत्वार्यपि संभूय चैतन्यमुत्पादयन्ति । तु पुनः । मति प्रमाणम् अक्षमेव ॥८३॥ ननुभूतचतुष्टयसंयोगेऽपि[गे]कथं चैतन्योत्पत्तिरित्याह-पृथिव्यादिचतुर्भूतानां संहतो मेले सति । तथेत्युपदर्शने । देहादिसंभवः । आदिशब्दाद् भूधरादिपदार्था अपि । यथा येन प्रकारेण सुराङ्गेभ्यो गुडधातक्यादिभ्यो मद्य[द]शक्तिः उन्मादरुत्वं भवति तीति तथा भूतचतुष्टयसंबन्धाच्छरीर आत्मनः स्थिता चे सचे] तनता ॥८४।। तस्मादिति पूर्वोक्तानुस्मरणपूर्वकं दृष्टपरित्यागात प्रत्यक्षसुखत्यागात् अदष्टे तपश्चरणादिकष्टे] प्रवृत्तिः । चः समुच्चये। तल्लोकस्य विमूढत्वं चार्वाकाः प्रतिपेदिरे । प्रतज्ञाततः [तवन्त] ॥८५॥ साध्यस्य मनीषितस्य कस्यचिद्वस्तुनो वृत्तिः प्राप्तिः अनभीष्टस्य निवृत्तिरभावः ताभ्यां जने या प्रीतिरुत्पद्यते सा तेषां चार्वाकाणां निरर्था । श्रेण्या [निरर्थका। शून्या] पूर्वभवाजितपुण्यपापाभावात्[भ एव । सा च प्रीतिराकाशरूपा शून्येत्यर्थः। धर्मस्य कामादन्यस्याभावात् ॥ ८६ ॥ एवं लोकायितमतसंक्षेपः कथितः । एतं षड्दर्शन[नोत्पन्न] विकल्पे सति अभिधेयतात्पर्यार्थः मुक्त्यङ्गतत्त्वसारार्थः येतातत्त्वसारार्थः] चिन्तनीयः बुद्धिमद्भिः ॥८७॥
इति षड्दर्शनसमुच्चयावचूर्णिः समाता ॥ छ-॥ श्री ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org