________________
परिशिष्टम् २
५०३
रादेनि तदनुमानन् । सूत्रे लक्षणं नेक्षणं णीयं] तेन चरमपदस्य नवाक्षरत्वेऽपि न दोषः ॥१०॥ साध्यधर्मविशिष्टो धर्मी पक्षः, यथा 'अद्विरयं वह्निमान् धूमवत्त्वात् अत्र पर्वतः पक्ष: धर्मत्वं वह्निमत्त्वं धूमवत्त्वेन व्याप्तम् । सपक्षे [क्ष] सत्त्वमिति, यो यो धूमवान् स स अग्निमान् यथा महानसे, धूमवत्त्वेन हेतुना सपक्षे महानसे सत्त्वं वह्निमत्त्वम् । विपक्षे नास्तिता यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा जलाशये वह्निमत्त्वं व्यावर्त्तमानं व्याप्यं धूमवत्त्वमादाय ब्यावर्तते ॥११।। अयं संक्षेपो निवेदितः कथितः, बौद्धानां राधान्तः सिद्धान्तः [तस्य [तद्वाच्यः] यद्वाच्यम्, इतो नैयायिकस्य विशेषशैवशासनस्य ॥१२॥ अक्षपादा नैयायिकाः । सृष्टिः प्राणी (णि)नां समु[नामु]त्पत्तिः, संहारः तद्विनाशः तत्करोतीति । विश्वस्य हि कश्चित् स्रष्टा संहर्ता विज्ञेयः, केवलसृष्टौ च निरन्तरोत्पद्यमानापारप्राणिगणस्य भुवनत्रयेऽप्यमात्वमिति [ प्राणिगणस्यापारत्वात् ] संहारकर्तापि कश्चिदभ्युपगन्तव्यः जगतः कार्यत्वाच्च । शिव ईश्वरः । विभुः [सर्व] व्यापकः । नित्यश्चासौ एकश्चेति, [अ] प्रच्युतानुत्पन्नस्थिर[रैक] स्वभावं हि नित्यम्, एकोऽद्वितीयः बहूनां घटाना[घटनां]युक्तेः । सर्वज्ञः स सर्वविशेषज्ञानात्तात् शाश्वतबुद्धिस्थानम्, क्षणिकबुद्धित्वे हि पराधीनता ॥१३॥ अत्र नैयायिकमते प्रमाणादीनि षोडशतत्त्वानि यथाक्रमं व्याक्रियमाणानि । नामानि सुगमानि । एवम् अमुना प्रकारेण प्रकटनमार्यस्य[मर्थस्य]पदार्थस्योपलब्धिर्ज्ञानं तस्य हेतुः कारणं प्रमाणं चतुर्विधम् ॥१४-१६॥ चतुः प्रमाणि [ण] (णानां) नामानि । अथ प्रत्यक्षानुमानस्वरूपमाहइन्द्रियं चार्थश्चेति तयोः संनिकर्षात् संयोगादुत्पन्नम्, इन्द्रियार्थयोहिं नैकदा (ट्यात्) संयोगाज्ज्ञानम् । यदुक्तम्- "आत्मा सहे (है) ति मनसा मन इन्द्रियेण, स्वार्थेन चे[इन्द्रियम [मि] तिक्रम एव शीघ्रः ।
योगोऽयमेव मनसा किमगम्यमस्ति यस्मिन् मनो व्रजति तत्र गतोऽयमात्मा ॥"
अव्यभिचारि [रकं ज्ञानान्तरेण नान्यथाभावि, शुक्तिशकले कलधौतबोधो व्यभिचारी । व्यवसायात्मक व्यवहारसाधकं सजलधरणितले जलहारं [ज्ञानं] व्यवहारासाधकत्वादप्रमाणम् । व्यपदेशो विपर्ययस्तेन रहितम् । तु पुनरनुमानं तत्पूर्व [व] प्रत्यक्षपूर्व त्रिप्रकारम् ॥१७-१८॥ पूर्ववच्छेषवत् सामान्यतो दृष्टम् । तत्र त्रिषु मध्ये कारणात् मेया [घात् कार्य] तवृष्टिलक्षणं यतो ज्ञायते तत्कारणकार्यमनुमानं निदर्शनेन द्रढयति ॥१९॥ रोलम्बा भ्रमराः, गवलं माहिषं शृङ्गम्, व्यालाः गजाः सपश्चि[वा], तमाला वृक्षाः, मलिना अर्थात् कृष्णा त्विट् येषाम् । एवंप्राया इत्युपलक्षणेन परेऽत्युन्नतत्वजितत्वा [ता] दयो विशेषा ज्ञेयाः ॥२०॥ यथा [यच्च] कार्यात्फलात कारणानुमानं फलोत्पत्तिहेतुपदार्थावगमनं तच्छेषवत् । यथाविधप्रवहत्सलिलनदीपूरात् उपरिशिखरिशिखरोपरि जलाभिवर्षणज्ञानम् ॥२१॥ चः पुनरर्थे । सामान्यतोदृष्टं तदनुमानं यथा पुंसि देवदत्तादौ देशान्तरत्वाप्तिर्गतिपूर्विका दृष्टा यथा उज्जयिन्याः प्रस्थिता [तो] माहिष्मती प्राप [प्तः] । तथा सूर्योदया (सूर्यस्य उदया) [सूर्येऽपि उदया] चलात् सायमस्ताचलगमनं [गमनं] ज्ञापयति ॥२२॥ क्रमागतमपि शाब्दप्रमाणमुपेक्ष्य उपमानमाहतदुपमानं यत्तदोनित्याभिसंबन्धात् । यत्, किंचिद् अप्रसिद्धस्य अज्ञायमानस्य अर्थस्य ज्ञापनं प्रसिद्धधर्मसाघादाबालगोपालाङ्गनाविदितात् क्रियते। साधम्यं समानधर्मत्वम् । यथा अरण्यवासी चिरपरिचितगोगवयलक्षणो नागरिकेण गावा गिवोप] लक्षणवता पष्टो दष्टान्तमदात ॥२३॥ तु पनः । आप्तोऽवितथवादी हितश्च यो जनताथ्यो [जनस्तस्य तथ्यो] हितोपदेशो देशनावाक्यं तच्छाब्दमागमप्रमाणम् । अथ प्रमाण [प्रमेय लक्षणमाह [प्रमेयलक्षणमाश्रित्याह-अथ] प्रमाणग्राह्योऽर्थः प्रमेयम् । तुः पुनरर्थे । आत्मा च देहश्चेति द्वन्द्वः । आदिशब्देन षण्णां प्रमेयार्थानां परिग्रहः। तत्र सचेतनत्वकर्तृत्वसर्वगतत्वादिना आत्मा अनुमीयते एव देहादयः, अत्र तु ग्रन्थविस्तरतया नात्र प्रपञ्चिताः ॥२४॥ संशयादिस्वरूपमाह । दूरावलोकनेन पदार्था [र्थ]परिच्छेदकधर्मेषु किमेतदिति सन्देहो वः स्थाणुर्वा पुरुषो वेति संशयः । अर्थत्वावणी (?) साध्यं कार्य प्रति प्रवर्त्तते प्रतीत्य अध्याहार्यम् ।. न हि निष्फल: कार्यारम्भः इति ॥२५॥ यस्मिन्नुपन्यस्ते वचने वादगोचरो न भवति उभयसम्मतत्वात् [संशयत्वात् । उक्तं च-"तावदेव चलत्यर्थो मन्तो विषयमागतः । तावन्नोत्तम्भते नैव दृष्टान्तो नावलम्ब्यते दिष्टान्तेनावसन्ध्यते ।" एष दृष्टान्तः । सिद्धान्तः पुनश्चतुर्धासर्वतन्त्रप्रतितन्त्र-अधिकरण-अभ्यपगमभेदात। विशेषार्थो विस्तरग्रन्थादवसेयो नाममात्र-कथनम् ॥ २६ ।। प्रतीज्ञापक्षः वह्निमानयं सानुमान् । हेतुर्लिङ्गवचनं धूमवत्त्वात् । दृष्टान्त उदाहरणम्, यथा महानसमिति । उपनयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org