________________
परिशिष्टम् २ षड्दर्शनसमुच्चयावचूर्णिः
श्रीमद्वीरजिनं नत्वा हरिभद्रगुरुं तथा । किंचिदर्थाप्यते युक्त्या षड्दर्शनसमुच्चयम् ।।
सत् शोभन दर्शनं सामान्यावबोधलक्षणं ज्ञानं सक्तं [सम्यक्त्वं] लोचनं वा यस्य, जिनो रागादिजेतृत्वात्, वीरमिति साभिप्राय प्रमाणवक्तव्यस्य पक्षेच्छेदादि परपक्षोच्छेदादेः ] सुभटवृत्तित्वात् भगवतश्च दुःखसंपादिविषमोपसर्गसहिष्णुस्तन[त्वेन सुभटत्वात् । यदुक्तम्-"विदारणात् कर्मततेविराजनातपःश्रिया [रूपश्रिया ] विक्रमतस्तथाद्भतात् । भवत्प्रमोदः किल नाकिनायश्चकार ते वीर इति स्फुटाभिधानम् (धा तम् ) ॥ स्याद्विकल्पितो वादः स्याद्वादः, सदसन्नित्यानित्यादिः तं दिशति यस्तम । सर्वाणि च तानि दर्शनानि च बौद्धादीनि तद्वाच्यः अर्थाभिधेयः अर्थाभिधेय वस्तु [ अर्थोऽभिधेयरै] वस्तुप्रयोजननिवृत्तिस्त्वि[ष्वि]त्यनेकार्थः संक्षेपेणैव, विस्तरकरणं दुरवगाहम् ॥१॥ प्रसिद्धानि दर्शनानि षडेव । एवावधारणे । यद्यपि भेदप्रभेदतया बहूनि दर्शनानि प्रसिद्धानि । यदुक्तम्-"असियसयं किरियायं अक्किरियवाईणमाह चुलसीए । अन्नाणी सत्तट्ठी वेणइआणञ्च बत्तीसं ।" इत्यादि । मूलभेदापेक्षया मूलभेदानाश्रित्य, वैभाषिकसू( सौ )त्रान्तिकबहूद[क]कुटीचरहंसपरमहंसभा[भ प्रभाकरादिसंभवश्चैतदन्तर्गत एव । देवता दर्शनाधिष्ठायकः । तत्त्वानि रहस्यानि मोक्षसाधकानि ॥२॥ बुद्धो देवतास्येति बौद्धम् । न्यायादनपेतं नैयायिकम् । सांख्यं कापिलदर्शनम् । जैनो देवतास्येति जैनम् । वैशेषिकं कणादि[द]दर्शनम् । जैमिनिऋषिमतं जैमिनीयं भाट्ट दर्शनम् । चः समुच्चये ॥३॥ चतुर्णा दुःखसमुदयः(य)मार्गनिरोधलक्षणानाम् आर्यसत्यानां तत्त्वानां प्ररूपकः कथयिता सुगतो नाम । आदिशब्दोऽत्र अवयवार्थः, यदुक्तम्-"सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा। चतुर्वेषु च मेधावी [धीमत] आदिशब्दं तुं लक्षयेत् [योजयेत् ॥४॥ संसरन्तीति संसारिणो विस्तरणशीलाः । स्कन्धाः प्रचयविशेषाः। दुःखं ते पञ्च [च] पञ्च । विशिष्टं ज्ञानं विज्ञानं सर्वक्षणिकत्वज्ञानम् । यदुक्तम् “यत्सत्तत् क्षणिकं यथा जलधरः सन्तश्च भावा इमे ।" वेद्यत इति वेदना, पूर्वभवपुण्यपापपरिणामबद्धाः सुखदुःखानुभवरूपा । तथोक्तम्- "इत एकनवते कल्पे शक्त्या में पुरुषो हुतः । तत्कर्मणो विपाकेन पादे विद्धोऽस्मि भ( भि )क्षवः ॥" संज्ञेति सर्व वा चेतनाचेतनं [सचेतनाचेतनं संज्ञामात्र नाममात्रम, नात्र पुत्रकलत्रभ्रातृत्वादि [तादिः] घटपटादिर्वा पारमार्थिकाः[कः] । पूर्वानुभूतरूपः संस्कारः, स एवायं देवदत्त इत्याद्याकारेण ज्ञानोत्पत्तिः संस्कारः सैवेयं दीपकलिकेति रूपम् इति रगरगायमाणपरमाणपरमाणुप्रचयः, बौद्ध मते हि स्थूलरूपपदार्थस्य निराक्रियमाणत्वाद् चेतन[ त्वेन परमाणव एव तात्त्विकाः । रागद्वेषमोहानां समस्तो गणो यस्मात् समुदेति समुद्भवति । अयमात्मा अयमात्मीयः पदे पदसमुदायोपचारात्, अपरः[ अयं परः ] परकीयः इति भावो रागद्वेषनिबन्धनं स समुदयः ॥५-६॥ सर्वेषां घटपटादीनां स एवायमिति ये संस्कारा ज्ञानसंतानास्ते क्षणिकाः, सर्व सत् क्षणिकम् अक्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधात्, एवं या वासना स मार्गः। तुशब्दः पश्चा( पाश्चा )त्यार्थसंग्रहार्थं पूर्व समुच्चयार्थे । निरोधो मोक्षः । सर्वक्षणिकत्वनैरात्म्यवासनारूपः [मार्गः] ॥७॥ पञ्चेन्द्रियाणि प्रसिद्ध शब्दरूपरसगन्धस्पर्शरूपाः विषयाः । मानसं चित्तम धर्मायतनं धर्मप्रधानमायतनं चेत्यादि । एतानि द्वादशायतनानि तत्त्वानन्तरं निरूप्यन्ते ॥८॥ तथा सौगतदर्शने द्वे प्रमाणे । चः पुनरर्थे । अक्षमक्षं प्रतिगतं प्रत्यक्षम् ऐन्द्रियकम् । अनुमीयतेऽनुमानं लैङ्गिकम् । सम्यग्ज्ञानं निश्चितावबोधो द्विविध एव [द्विधा यतः] ॥९|| शब्दसंसर्गवती प्रतीतिः कल्पना तयापोढं रहितं निर्विकल्पकम्, अभ्रान्तं भ्रान्तिरहितम्, रगरगायमाणपरमाणुलक्षणस्वरूपं स्व] लक्षणं हि प्रत्यक्ष निर्विकल्पकम्, बाह्ये स्थूलपदार्थ[र्थगं तज्ज्ञानं] गतं ज्ञानं सविकल्पकं भ्रान्तं च । तु पुनः त्रिरूपात् पक्षधर्मत्वं-सपक्ष[क्षेसत्त्व[त्त्वं] विपक्षव्यावृत्तिरूपात लिङ्गतो धूमादेः धी[यत] लिङ्गिनो वैश्वान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org