________________
न
५००
षड्दर्शनसमुच्चये विदग्धो वल्लभो वृकचरणनिरीक्षणाग्रह कराङ्गलिन्यासमात्रेण प्रलोभ्य पूरितवान्, एवममी अपि धर्मच्छमधूर्ताः परवञ्चनप्रवणा यत् किंचिदनुमानागमादिदाढर्यमादर्य व्यर्थं मुग्धजनान् स्वर्गादिप्राप्तिलभ्यभोगाभोगप्रलोभनया भक्ष्याभक्ष्यगम्यागम्यहेयोपादेयादिसंकटे पातयन्ति, मुग्धधार्मिकध्यान्ध्यं चोत्पादयन्ति । एवमेवार्थ प्रमाणकोटिमधिरोपयन्तश्च यबहुश्रुताः परमार्थवेदिनो वदन्ति, वक्ष्यमाणपद्येनेत्यर्थः।।
पिब खाद च 'जातशोभने ! यदतीतं वरगात्रि! तन्न ते ।
नहि भीरु ! गतं निवर्तते समुदयमात्रमिदं कलेवरम् ।।८२॥ हे जातशोभने, भावप्रधानत्वान्निर्देशानां, जातं शोभनत्वं वदननयनादित्वं यस्याः सेति तत्संबोधनम् । पिब पेयापेयव्यवस्थावसंष्ठुल्येन मदिरादेः पानं कुरु न केवलं पिब, खाद च भक्ष्याभक्ष्यनिरपेक्षतया मांसादिकं भक्षय । यद्वा पिबेति अधरादिपानं कुरु, खादेति भोगानुपभुवेति काम्युपदेशः, स्वयौवनं सफलीकुवित्यर्थः । अथ सुलभमेव पुण्यानुभावाद्भवान्तरेऽपि शोभनत्वमिति परोक्तमाशङ्कयाह-यदतीतं वरगात्रि तन्न ते । हे प्रधानाङ्गि ! यदतीतम्, अतिक्रान्तं यौवनादि तत्ते तव भूयो न, किं तु जराजोर्णत्वमेव भविष्यतीत्यर्थः । जातशोभने-वरगात्रीतिसंबोधनयोः समानार्थयोरप्यादरानुरागातिरेकान्न पौनरुक्तयदोषः । यदुक्तम्
"अनुवादादरवीप्साभृशार्थविनियोगहेस्वसूयासु ।
ईषत्संभ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम् ।" ननु स्वेच्छयाविच्छिन्ने खादने पाने दुस्तरा परलोके कष्टपरम्परा, सुलभं च सति सुकृतसंचये भवान्तरेऽपि यौवनादिकमिति पराशङ्कां दूषयन्नाह-न हि मीरु गतं निवर्तते । हे भीरु ! परोक्तमात्रेण नरकादिप्राप्यदुःखभयाकुले ! गतम्, इह भवातिक्रान्तं सुखं यौवनादि न निवर्तते परलोके नाढौकते परलोकसुखाकाङ्क्षया तपश्चरणादिकष्टक्रियाभिरिहत्यसुखोपेक्षा व्यर्थेत्यर्थः। अथ जन्यजनकसंबन्धसद्धावादमुना कायेन परलोकेऽपि सहेतुकं सुखदुःखादिकं वेदितव्यमवश्यमेवेति चेत् आह-समुदयमात्रमिदं कलेवरम् । इदं कलेवरं शरीरं समुदयमानं समुदयो मेलः वक्ष्यमाणचतुर्भूतानां संयोगस्तन्मात्रं मात्रशब्दोऽवधारणे भूतचतुष्टयसंबन्ध एव कायो न च पूर्वभवादिसंबद्धशुभाशुभकर्मविपाकवेद्यसुखदुःखादिसव्यपेक्ष इत्यर्थः । संयोगाश्च तरुशिखरावलीलीनशकुनिगणवत्, क्षणतो विनश्वरास्तस्मात् परलोकानपेक्षया यथेच्छं पिब खाद चेति वृत्तार्थः । चैतन्यमाह
कि च पृथ्वी जलं तेजो वायुभूतचतुष्टयम् ।
'चैतन्यभूमिरेतेषां मानं त्वक्षजमेव हि ।।८।। किं चेत्युपदर्शने, पृथ्वी भूमिः, जलमापः, तेजो वह्निः, वायुः पवनः, इति भूतचतुष्टयं तेषां चार्वाकाणां चैतन्यममिः "चैतन्योत्पत्तिकारणं चत्वार्यपि भूतानि संभूय सपिण्डं चैतन्यं जनयन्तीत्यर्थः । तु पुनर्मानं प्रमाणं हि निश्चितम् अक्षजमेव प्रत्यक्षमेवैकं प्रमाण मित्यर्थः । ननु भूतचतुष्टयसंयोगजा देहचैतन्योत्पत्तिः कथं प्रतीयतामित्याशङ्क्याह
पृथ्व्यादिभूतसंहत्यां तथा ''देहादिसंभवः ।
मदशक्तिः सुराङ्गेभ्यो यद्वत्तद्वत्स्थितात्मता ॥४॥ पृथिव्यादीनि पृथिव्यप्तेजोवायुरूपाणि यानि भूतानि तेषां संहत्यां मेले संयोगे सति तथेत्युपदर्शने, देहादिसंभवः, आदिशब्दादितरे भूभूधरादिपदार्था अपि भूतचतुष्टयसंयोगजा एव ज्ञेयाः। दृष्टान्तमाह-यद्वद् येन प्रकारेण सुराङ्गेभ्यो गुडधातक्यादिभ्यो मद्याङ्गेभ्यो मदशक्तिरुन्मादकत्वं भवति, तद्वत्तथा भूतचतुष्टयसंबन्धात शरीर आस्मता स्थिता सचेतनत्वं जातमित्यर्थः।
१. धार्मिकछ-प. १, २, म. १,२। २. चारुलोचने प. १,२ । ३. सा तत्स-प. २। ४. प्रधानगात्रि प. २। ५.-क्तयं दो-मु.। ६.-भं भवति मु.। ७.-खानुबन्धस-प. .,., म. १,२। ८. आधारो भ-प. १, २, म. १,२। ९.-भिरित्येषां प. १,२। १०.चेतनस्योत्पत्ति-प. १,२, म. १,२ । ११. -हपरीणतेः म.१,२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org