________________
परिशिष्टम् ।
४९९ दर्शनानां षट्संख्या जगति प्रसिद्धा सा कथं फलवतीत्याह
पष्ठदर्शनसंख्या तु पूर्यते तन्मते किल ।
लोकायतमतक्षेपात्कथ्यते तेन तन्मतम् ।।७९|| ये नैयायिकवैशेषिकयोरेकरूपत्वेनाभेदं मन्यमाना दर्शनपञ्चकमेवाचक्षते, तन्मते षष्टदर्शनसंख्या लोकायतमतक्षेपात्पूर्यते। तु पुनरर्थे, किलेति परमाताम्नाये, तेन कारणेन तन्मतं चार्वाकमतं कथ्यते तत्स्वरूपमुच्यत इति । तदेवाह
लोकायता वदन्त्येवं नास्ति देवो न निर्वृतिः।
धर्माधर्मों न विद्यते न फलं पुण्यपापयोः ॥८॥ लोकायता नास्तिका एवममुना प्रकारेण वदन्ति कथमित्याह देवः-सर्वज्ञादिर्नास्ति, निर्वृतिर्मोक्षो नास्ति, अन्यच्च, न विद्यते, को धर्माधर्मों, धर्मश्चाधर्मश्चेति द्वन्द्वः । पुण्यपापे सर्वथा न स्त इत्यर्थः । पुण्यपापयोधर्माधर्मयोः फलं स्वर्गनरकादिरूपं नेति नास्ति, तदपि 4 पुण्यपापयोरभावे कौतस्त्यं तत्फलमित्यादि । तच्छास्त्रोक्तमेव सोल्लुण्ठं दर्शयन्नाह-तथा च तन्मतम् ।
एतावानेव लोकोऽयं यावानिन्द्रियगोचरः।
भद्रे वृकपदं पश्य यद्वदन्ति बहुश्रुताः ।।८१॥ तथा चेत्युपदर्शने । तन्मतं प्रस्तावान्नास्तिकमतम् । कथमित्याह
अयं लोकः संसार एतावानेव एतावन्मात्र एव यावान् यावन्मात्रमिन्द्रियगोचरः । इन्द्रियं स्पर्शनरसनघ्राणचक्षःश्रोत्रभेदात पञ्चविधं तस्य गोचरो विषयः । पञ्चेन्द्रियव्यक्तीकृतमेव वस्त्वस्ति नापरं किचन । अत्र लोकग्रहणाल्लोकस्थपदार्थसार्थस्य संग्रहः । तथा परे पुण्यपापसाध्यं स्वर्गनरकाद्याहुः, तदप्रमाणं प्रत्यक्षा
व । अप्रत्यक्षमप्यस्तीति चेच्छशशूजवन्ध्यास्तनन्धयादीनामपि भावोऽस्तु । तथा हि-~-स्पर्शनेन्द्रियेण तावन्मदुकठोरशीतोष्णस्निग्धरूक्षादिभावा उपलभ्यन्ते । रसनेन्द्रियेण तिक्तकटुकषायाम्लमधुरास्वादलेह्यचूष्यपेयादयो वेद्यन्ते । घ्राणेन्द्रियेण मगमदमलयजघनसारागरुप्रभतिसरभिवस्तुपरमलोदगारपरम्पराः परिचीयन्ते । चक्षुरिन्द्रियेण भूभूधरपुरप्राकारघटपटस्तम्भकुम्भाम्भोरुहादिमनुष्यपशुश्वापदादिस्थावरजङ्गमपदार्थसार्था अनुभूयन्ते । श्रोत्रेन्द्रियेण तु प्रथिष्ठगाथकपथपथिकप्रथ्यमानतालमानमूर्च्छनाप्रेजोलनाखेलन्मधुरध्वनय आकर्ण्यन्ते । इति पञ्चप्रकारप्रत्यक्षदृष्टमेव वस्तूतत्त्वं प्रमाणपदवीमवगाहते। शेषप्रमाणानामनुभवाभावादेव निरस्तत्वाद् गगनकुसुमवत् । ये चास्पृष्टमनास्वादितमनाघ्रातमदृष्टमश्रुतमप्याद्रियमाणाः स्वर्गमोक्षादिसुखपिपासानुबन्धचेतोवृत्तयो दुश्चरतरतपश्चरणादिकष्टपिष्टकया स्वजन्म क्षपयन्ति, तन्महासाहसं तेषामिति । कि चाप्रत्यक्षमप्यस्तितयाभ्युपगम्यते चेज्जगदनपद्रुतमेव स्यात् । दरिद्रो हि स्वर्णराशिर्मेऽस्तीत्यनुध्याय हेलयैव दौःस्थ्यं दलयेत, दासोऽपि स्वचेतसि स्वामितामवलम्ब्य स्वस्य किङ्करतां निराकूर्यादिति, न कोऽपि स्वानभिमतमालिन्यमश्नुवीत । एवं न कश्चित्सेव्यसेवकभावो दरिद्रिधनिभावो वा स्यात् । तथा च जगद्व्यवस्था विलोपप्रसंग इति सुस्थितमिन्द्रियगोचर एव प्रमाणम् । ये चानुमानागमादिप्रामाण्यमनुमन्वानाः पुण्यपापव्यापारप्राप्यस्वर्गनरकादिसुखासुखं व्यवस्थापयन्तो वाचाटा न विरमन्ति, तान् प्रति दृष्टान्तमाह । भद्रे वृकपदं पश्येति । यथा हि कश्चित्पुरुषो वृकपददर्शनसमुद्भूतकुतूहला दयितां मन्थरतरप्रसृमरसमीरणसमीकृतपांशुप्रकरे स्वकराङ्गुलिन्यासेन वृकपदाकारतां विधाय प्राह-हे मद्रे ! वृकपदं पश्य । कोऽर्थः । यथा तस्या अविदितपरमार्थाया मुग्धाया
१. -द्धा कथं फलती-प. १, २, मु.। २. एवमनुमानैव-प. ।। ३. एतदपि-प. १, २, भ. १, २ । ४. -त्र इ-प. १,३। ५. किञ्चित्-म. ।। ६. -र्थसं-प. १, २, म. १,२। ७. तच्चापरे-प.., २ म. १,२। ८. पानाद-प. १,२। ९. -ष्टमदृष्टमप्याद्रियमाणाः प. २। -दिसुखपिष्टिकाः प. १, २, म. १,३। १०.-नपहनुत- मु. अनुपहृत -प. १,२। ११. स्थालोप- प. १, २ । १२. समुत्पन्नकु-म. १,२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org