________________
परिशिष्टम् ।
४९७.
अथ यथावस्थितार्थव्यवस्थापकं तत्त्वोपदेशमाह
अत एव पुरा कार्यों वेदपाठः प्रयत्नतः।
ततो धर्मस्य जिज्ञासा कर्तव्या धर्मसाधनी ॥७०|| यतो हेतोर्वेदाभिहितानुष्ठानादेव तत्त्वनिर्णयः, अत एव पुरा पूर्व प्रयत्नतो यत्नावेदपाठः कार्य: 'ऋग्यजुःसामाथर्वाणो वेदास्तेषां पाठः कण्ठपीठलुठत्पाठप्रतिष्ठा, 'नानुश्रवणमात्रेण सम्यगवबोधस्थिरता, ततोऽनन्तरं साधनीयपुण्योपचयहेतुधर्मस्य हेयोपादेयस्वरूपस्य वेदाभिहितस्य जिज्ञासा ज्ञातुमिच्छा कर्तव्या विधेया वेदोक्ताभिधेयविधाने यतितव्यमित्यर्थः । वेदोक्तधर्मोपदेशमेवाह
नोदनालक्षणो धर्मो, नोदना तु क्रियां प्रति ।
प्रवर्तकं वचः, प्राहुः स्वःकामोऽग्नि यजेद्यथा ।।७१।। नोदनैव लक्षणं यस्य स नोदनालक्षणो धर्मः। तत्स्वरूपमेव सूत्रकृदाह । तु पुन नोंदनाक्रियां प्रति प्रवर्तकं वचः प्राहुः । वेदोक्तस्वर्गादिसाधकाम्नायस्य क्रियाप्रवर्तकं वचनं नोदनामाहुरित्यर्थः । शिष्यानुकम्पया तत्सूत्रेणैव दृष्टान्तयन्नाह-स्वःकामोऽग्नि यजेद्यथा। यथा येन प्रकारेण स्वःकामः स्वर्गाभिलाषी जनोऽग्नि यजेद् अग्निकार्य कुर्यात् । यथाऽहस्तत्सूत्रम् । अग्निहोत्रं जुहयात्स्वर्गकाम इति । प्रमाणान्याह
प्रत्यक्षमनुमानं च शब्दश्चोपमया सह ।
अर्थापत्तिरभावश्च षट प्रमाणानि जेमिनेः ॥७२॥ जैमिनेः पूर्ववेदान्तवादिनः षट् प्रमाणानि ज्ञेयानीति संबन्धः । यद्यपि प्राभाकराणां मते पञ्च प्रमाणानि, भाट्टानोमेव षट्, तथाप्यत्र ग्रन्थकृत्सामान्यतः षट्संख्यामाचष्टे । प्रमाणनामानि निगदसिद्धान्येव । निरुक्तमाह
तत्र प्रत्यक्षमक्षाणां संप्रयोगे सतां मर्तिः।
आत्मनो बुद्धिजन्मेत्यनुमानं लैङ्गिकं पुनः ।।७३।। तत्र प्रमाणषट्के, अक्षाणामिन्द्रियाणां, संप्रयोगे पदार्थः सह संयोगे, सतामनुपहितेन्द्रियाणां या मतिबद्धिरिदमित्यवबोधःतत्प्रत्यक्षं प्रमाणं 'भवति' इत्यध्याहारः। यत्तदावनुक्तावप्यर्थसंबन्धात ज्ञेयौ । सतामितिविदुषामदुष्टेन्द्रियाणामित्यर्थः। एतावता मरुमरीचिकायां जलभ्रमः, शुक्तौ रजतभ्रमश्चेन्द्रियार्थसंप्रयोगजोऽपि द्रष्टुरविकलेन्द्रियत्वाभावान्न प्रत्यक्षं तत्प्रमाणकोटिमधिशेते। अनुमानमाह-आस्मनो बुद्धिजन्मेत्यनुमानं लैङ्गिकं पुनः। आत्मा यदनुमिमीते स्वयं तदनुमानमित्यर्थः। अनुमानलैङ्गिकयोः 'शाब्दभेदेऽप्यनुमीयत इत्यनुमानं लिङ्गाज्जातं लैङ्गिकमिति व्युत्पत्तिभेदाभेदो ज्ञेय उभयशब्दकथनं तु बालावबोधार्थमेवेति ।
शाब्दं शाश्वतवेदोत्थमुपमानं प्रकीर्तितम् ।
प्रसिद्धार्थस्य साधादप्रसिद्धस्य'भाजनम् ॥७४|| शाब्दमागमप्रमाणं शाश्वतवेदोत्थं शाश्वतानित्याद्वेदाज्जातम् । आगमप्रमाणमित्यर्थः । शाश्वतत्वं च वेदानामपौरुषेयत्वादेव । उपमानमाह-यस्प्रसिद्धार्थस्य प्रतीतपदार्थस्य साधात् साम्यादप्रसिद्धस्य वस्तुनः साधनं तदुपमानं प्रमाण प्रकीर्तितं कथितम् । यथा प्रसिद्धगोगवयस्वरूपो बनेचरोप्रसिद्धगवयस्वरूपं नागरिक प्राह–'यथा गौस्तथा गवयः' इति । यथा भोः खुरककुदलाङ्घलसास्नादिमन्तं पदार्थ गामिति जानासि, गवयोऽपि तथास्वरूपो ज्ञेय इत्युपमानम् । अत्र सूत्रानुक्तावपि यत्तदावर्थसंबन्धार्थमध्याहार्यो ।
१. ननु श्र-म, १,२। न तु श्र-प..। न तु श्रवणसम्य-प.२ । २.-स्थिरत्वं म.१,२। ३. -न्तरं धर्मसा-प. १, २, म. १,२। ४. यथा यजेत् प. १, म. १,५। ५. -दनादि क्रिया प. १ । ६. तु शाब्दश्चो-म, १,२। ७. पञ्चै व म. १,२। ८. सति प. २। ९. शब्दाभे-मु., म, १, २ । १०. भाजनम्-मु.।
www.jainelibrary.org |
Jain Education International
For Private & Personal Use Only