________________
४९६
षड्दर्शनसमुच्चये त्रैलोक्यसाम्राज्यसूचकच्छत्रचामरादिविभूत्यन्यथानुपपत्तेश्चास्ति कश्चित् पुरुषविशेषः सर्वज्ञ इति चेत्; त्वयूथ्योक्तवचनप्रपञ्चोपन्यासैरेव निरस्तत्वात् । यथा- .
__ "देवागमनभोयानचामरादिविभूतयः ।
मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् ॥" [ ] अथ यथानादेरपि सुवर्णमलस्य क्षारमृत्पुटपाकादिप्रक्रियया शोध्यमानस्य निर्मलत्वमेवमात्मनोऽपि निरन्तरज्ञानाद्यभ्यासेन विगतमलत्वात्[त्वं] किं न संभवेदिति मतिः, तदपि न ह्यभ्यासमात्रसाम्ये शुद्धरपि तदेव तादवस्थ्यम् । यदुक्तम्
"गरमच्छाखामृगयोलङ्घनाभ्याससंमवे ।
समानेऽपि समानत्वं कङ्घनस्य न विद्यते ॥"[ न च सुतरां चरणशक्तिमानपि पङ्गुरखर्वपर्वतशिखरमधिरोढुं क्षमः । उक्तं च
"दशहस्तान्तरं व्योम्नो यो नामोरप्लुत्य गच्छति ।
न योजनशतं गन्तुं शक्तोऽभ्यासशतैरपि।" अथ मा भवतु मानुषस्य सर्वज्ञत्वं ब्रह्मविष्णुमहेश्वरादीनामस्तु । ते हि देवाः, संभवत्यपि तेष्वतिशायिसंपत् । यदाह कुमारिल:
“अथापि वेददेहत्वाद् ब्रह्मविष्णुमहेश्वराः ।
कामं मवन्तु सर्वज्ञाः सार्वश्यं मानुषस्य किम् ॥" एतदपि न; रागद्वेषमूलनिग्रहानुग्रहग्रस्तानामसंभाव्यमिदमेषामिति । न च प्रत्यक्षं तत्साधकम्, 'संबद्धं वर्तमानं च गृह्यते चक्षुरादिना' [ ] इति वचनात् । न चानुमानम्, प्रत्यक्षदृष्ट एवार्थे तत्प्रवृत्तेः । न चागमः, सर्वज्ञस्यासिद्धत्वेन तस्यापि विवादास्पदत्वात् । न चोपमानम् तदभावादेव । अर्थापत्तिरपि न; सर्वज्ञसाधकस्यान्यथानुपपन्नलिङ्गस्यादर्शनात् । यदि परमभावप्रमाणगोचरः सर्वज्ञ इति स्थितम् । प्रयोगश्चात्रनास्ति सर्वज्ञः, प्रत्यक्षादिगोचरातिक्रान्तत्वात्, शशशृङ्गवदिति । अथ कथं यथावस्थिततत्त्व निर्णय इत्याह
तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टुरभावतः।
नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चयः ॥६९।। तस्मात्प्रामाणिकपुरुषाभावादतीन्द्रियार्थानां चक्षुरगोचरपदार्थानां साक्षाद् द्रष्टुतिः सर्वज्ञादेः पुरुषस्यामावाद् नित्येभ्यः शाश्वतेभ्यो वेदवाक्येभ्योऽपौरुषेयवचनेभ्यो यथार्थत्वविनिर्णयो यथावस्थितपदार्थधर्मादिस्वरूपविवेचनं 'भवति' इत्यध्याहारः । अपौरुषेयत्वं च वेदानाम्
"अपाणिपादो यमनो गृहीता पश्यत्यचक्षुः स शृणोत्यकर्णः ।
.. स वेत्ति विश्व न च तस्य वेत्ता तमाहरग्ज्यं पुरुषं महान्तम् ॥" इत्यादिभावनया रागद्वेषादिदोषतिरस्कारपूर्वकं भावनीयमिति ।
१.-३चास्ति विशिष्टः सर्वज्ञः प.२। -चास्ति विशेषः सर्वज्ञः प. १, म. १। २. -या विशो-प.., २, म. १ । ३. -पि ताद - प. १, २, भ. १,२। ४. -शिखामधि-प. १, २, मु.। ५. -शयसम्पप. १, २, म. १,२। ६. देवदेहत्वात् प. २। वेदहेतुत्वात् मु.। ७. तदपि न भ. १,२, प. १,२। ८. तत्प्रर्वतनात् प. २। ९. -पपत्तिलि-प.। १०. -तत्त्वज्ञाननि-प. १, २, म.१,२। ११.-निर्णयः म.१,२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org