________________
षड्दर्शनसमुच्चये कर्मसामान्यभेदानाह
उत्क्षेपावक्षेपावाकूञ्चनकं प्रसारणं गमनम् ।
पञ्चविधं कमैतत् परापरे द्वे तु सामान्ये ॥६४॥ पञ्चापि कर्मभेदाः स्पष्टा एव । गमनग्रहणाद् भ्रमणरेचनस्यन्दनाद्यवरोधः। तु पुनः, सामान्ये द्वे द्विसंख्ये । के ते इत्याह-परापरे । परं चापरं च परापरे, परसामान्यमपरसामान्यं चेत्यर्थः। एतव्यक्ति विशेषव्यक्ति चाह
तत्र परं सत्ताख्यं द्रव्यत्वाद्यपरमथ विशेषस्तु ।
निश्चयतो नित्यद्रव्यवृत्तिरन्त्यो विनिदिशेत् ॥६५॥ तत्र तयोर्मध्ये परं सत्ता भावो महासामान्यमिति चोच्यते, द्रव्यस्वाद्य वान्तरसामान्यापेक्षया महाविषयत्वात् । अपरसामान्यं द्रव्यस्वादि, एतच्च सामान्यविशेष इत्यपि व्यपदिश्यते । तथा हि । द्रव्यत्वं नवसु द्रव्येषु वर्तमानत्वात्सामान्यम्, गुणकर्मभ्यो व्यावृत्तत्वाद्विशेषः, ततः कर्मधारये सामान्यविशेष इति । एवं द्रव्यत्वाद्यपेक्षया पृथिवीत्वादिकमपरं तदपेक्षया घटस्वादिकम् । एवं चतुर्विशतौ गुणेषु वृत्तेर्गुणत्वं सामान्य द्रव्यकर्मभ्यो व्यावृत्तेश्च विशेषः । एवं गुणत्वापेक्षया रूपत्वादिकं तदपेक्षया नीलत्वादिकम् । एवं पञ्चसु कर्मसु वर्तमानत्वात् कर्मत्वं सामान्यं, द्रव्यगुणेभ्यो व्यावृत्तत्वाद्विशेषः । एवं कर्मत्वापेक्ष योत्क्षेपणत्वादिकं ज्ञेयम् । तत्र सत्ता द्रव्यगुणकर्मभ्योऽर्थान्तरं कया युक्तयेति चेत्, उच्यते-न द्रव्यं सत्ता, द्रव्यादन्येत्यर्थः, एकद्रव्यत्वाद् एकैकस्मिन् द्रव्ये वर्तमानत्वादित्यर्थः । द्रव्यत्ववद, यथा द्रव्यत्वं नवस द्रव्येषु प्रत्येक वर्तमानं द्रव्यं भवति, कि तु सामान्यविशेषलक्षणं द्रव्यत्वमेव, एवं सत्तापि । वैशेषिकाणां हि, अद्रव्यं वा द्रव्यम्, अनेकद्रव्यं वा द्रव्यम् । तत्राद्रव्यं द्रव्यमाकाशं दिगात्मा कालो मनः परमाणवः, अनेकद्रव्यं तु घणुकादिस्कन्धाः, एकद्रव्यं तु द्रव्यमेव न भवति, एकद्रव्यवती च सत्ता इति द्रव्यलक्षणविलक्षणत्वान्न द्रव्यम् । एवं न गुणः सत्ता, गुणेषु भावाद्गुणत्ववत् । यदि हि सत्ता गुणः स्यात् न तहि गुणेषु वर्तेत, निर्गुणत्वांद् गुणानाम्, वर्तते च गुणेषु सत्ता, 'सन् गुण' इति प्रतीतेः। तथा न सत्ता कर्म, कर्मसु भावात, कर्मत्ववत् । यदि च सत्ता कर्म स्यान्न तहि कर्मसु वर्तेत, निष्कर्मत्वात्कर्मणाम, वर्तते च कर्मसु भावः, 'सत्कर्मेति प्रतीतेः। तस्मात् पदार्थान्तरं सत्ता। अथ विशेषपदार्थमाहार्यार्द्धन-विशेषस्त्विति । निश्चयतो नित्यद्रव्यवृत्तिरन्त्यो विनिर्दिशेत् । विनिर्दिशेत् कथयेद् आचार्य इति ज्ञेयम् । 'कथमित्याह-अन्त्यो विशेषो नित्यगव्यवृत्तिरिति । तथा हि । नित्यद्रव्यवृत्तयोऽन्त्या विशेषा अत्यन्तव्यावृत्तिहेतवस्ते द्रव्यादिवैलक्षण्यात् पदार्थान्तरम् । तथा च प्रशस्तकारः , अन्तेषु भवा अन्त्याः, स्वाश्रयविशेषकत्वाद्विशेषाः । विनाशारम्भरहितेष नित्यद्रव्येष्वण्वाकाशकालदिगात्ममनःस प्रतिद्र कशो वर्तमाना अत्यन्तव्यावृत्तिबुद्धिहेतवः । यथा अस्मदादीनां गवादिष्वश्वादिभ्यस्तुल्याकृतिक्रियावयवोपचयापचय अवयव विशेषसंयोगनिमित्तासंभवाद् येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं विलक्षणोऽयमिति प्रत्ययव्यावृत्तिर्देशकालविप्रकर्षदृष्टे च परमाणौ स एवायमिति प्रत्यभिज्ञानं च भवति तेऽन्त्या विशेषा इति । अमी च विशेषो एव, न तु द्रव्यत्वादिवत् सामान्यविशेषोभयरूपा व्यावृत्तेरेव हेतुत्वादित्यर्थः । समवायपदार्थव्यक्तिलक्षणमाह
य इहायुतसिद्धानामाधाराधेयभूतभावानाम् ।
संबन्ध इह प्रत्ययहेतुःप्रोक्तः स समवायः ॥६६॥ इह प्रस्तुतमते, अयुतसिद्धानीमाधाराधेयभूतमावानामिह प्रत्ययहेतुर्यः संबन्धः स समवायः । यथेह - तन्तुषु पट इत्यादि प्रत्ययस्यासाधारणं कारणं समवायः । यद्वशात् स्वकारणसामर्थ्यादुपजायमानं पटाद्याधायं
१. -दिष्टः म. १,२।२. अपरं सा मु., भ. २, प. १, २ । ३. व्यावृत्तित्वाद्वि-प, ।। व्यावृत्तत्वाच्च वि- प. २। ४. -करः म. ५। ५. तथा मु., म. २। ६.-दिति पद्यार्थः म. १, प. १,२। ७. -माधेयाधारभू- भ. १, २ । ८. -धार्याधारभू-भ. ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org