________________
षड्दर्शनसमुच्चये
येन कारणेन यदुत्पादव्ययधौन्ययुक्तं तत्सत्सत्त्वरूपमिष्यते तेन कारणेनानन्तधर्मकं वस्तु मानगोचरः, प्रत्यक्षपरोक्ष प्रमाण विषय उक्तं कथितमिति संबन्ध: उत्पादश्च व्ययश्च ध्रौव्यं च, उत्पादव्ययध्रौव्याणि तेषां युक्तं मेलस्तदेव सत्त्वमिति प्रतिज्ञा इष्यते केवलज्ञानिभिरभिलष्यत इति । वस्तुतत्त्वं चोत्पादव्ययध्रौव्यात्मकम् । तथा हि- उर्वीपर्वततर्वादिकं सर्वं वस्तु द्रव्यात्मना नोत्पद्यते, विपद्यते, वा परिस्फुटमन्वयदर्शनात् । लूनपुनर्जातनखादिष्वन्वयदर्शनेन व्यभिचार इति न वाच्यम्, प्रमाणन बाध्यमानस्यान्वयस्यापरिस्फुटत्वात् । न च प्रस्तुतोऽन्वयः प्रमाणविरुद्धः; सत्यप्रत्यभिज्ञानसिद्धत्वात्
४९२
"सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः । सत्यश्चित्यपचित्योराकृतिजातिव्यवस्थानात् ॥" [
]
इति वचनात् । ततो द्रव्यात्मना स्थितिरेव सर्वस्य वस्तुनः पर्यायात्मना तु सर्वं वस्तुत्पद्यते विपद्यते .च, अस्खलितपर्यायानुभवसद्भावात् । न चैवं शुक्लशङ्ख पीतादिपर्यायानुभवेन व्यभिचारः, तस्य स्खलद्रूपत्वात् । न खलु सोऽस्खलद्रूपो येन पूर्वाकारविनाशोऽजहद्वृत्तोत्तराकारोत्पादाविनाभावी भवेत् । न च जीवादी वस्तुनि हर्षामर्षोदासीन्यादिपर्यायपरम्परानुभवः स्खलद्रूपः कस्यचिद्बाधकस्याभावात् । ननूत्पादादयः परस्परं भिद्यन्ते न वा । यदि भिद्यन्ते; कथमेकं वस्तु श्यात्मकम् । न भिद्यन्ते चेत्; तथापि कथमेकं वस्तु त्र्यात्मकम् । तथा च यद्युत्पादादयो भिन्नाः, कथमेकं श्यात्मकम् । अथोत्पत्त्यादयोऽभिन्नाः, कथमेकं त्रात्मकमिति चेत्; तदयुक्तम्; कथंचिद्भिन्नलक्षणत्वेन तेषां कथंचिद्भेदाभ्युपगमात् । तथा हि-उत्पादविनाशश्रव्याणि स्याद्भिन्नानि भिन्नलक्षणत्वात् रूपादिवत् । न च भिन्नलक्षणत्वमसिद्धम्, असत आत्मलाभः सतः सत्त्वाविप्रयोगो द्रव्यरूपतयानुवर्त्तनं च खलूत्पादादीनां परस्परमसंकीर्णानि लक्षणानि सकललोकसाक्षिकाण्येव । न चामी भिन्नलक्षणा अपि परस्परानपेक्षाः खपुष्पवदसत्त्वापत्तेः । तथा ह्युत्पादः केवलो नास्ति स्थिति विगमरहितत्वात्, कूर्मरोमवत् । तथा विनाशः केवलो नास्ति स्थित्युत्पत्तिरहितत्वात्तद्वत् । एवं स्थितिः केवला नास्ति, विनाशोत्पादशून्यत्वात्, तद्वदेवेत्यन्योन्यापेक्षाणामुत्पादादीनां वस्तुनि सत्त्वं प्रतिपत्तव्यम् । तथा चोक्तं
"घटमौ कि सुवर्णार्थी नाशोत्पादस्थितिष्वकम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥
'पयोवतो न दध्यत्ति न पयोऽत्ति दधिव्रतः ।
भगोरसवो नोभे तस्माद्वस्तु त्रयात्मकम् ॥” [ आप्तमी ५९-६० ] इति
व्यतिरेकश्च यदुत्पादव्ययध्रौव्यात्मकं न भवति, तद्वस्त्वेव न यथा खरविषाणं यथेदं तथेदमिति । अत एवानन्तधर्मकं वस्तु मानगोचरः प्रोक्तम् । अनन्ता धर्माः पर्यायाः सामान्यविशेषलक्षणा यत्रेत्यनन्तधर्मकं वस्त्विति । उत्पादव्ययंध्रौव्यात्मकस्यैवाने कधर्मकत्वं युक्तियुक्ततामनुभवतीति ज्ञापनायैव भूयोऽनन्तधर्मकपदप्रयोगो न पुनः पाश्चात्यपद्येोक्तानन्तधर्मकपदेन् पौनरुक्तयमाशङ्कनीयमिति पद्यार्थः ।
ग्रन्थस्य बालावबोधार्थफलत्वादथोपसंहरन्नाह—
जैनदर्शनसंक्षेप इत्येष कथितोऽनघः ।
"पूर्वापरविघातस्तु यत्र क्वापि न विद्यते ॥ ५८॥
इति पूर्वोक्तप्रकारेण, एष प्रत्यक्षलक्ष्यो जैनदर्शनसंक्षेपः कथितः, विस्तरस्यागाधत्वेन वक्तुमगोचरत्वात् । उपयोगसारः संक्षेपो निवेदितः । किंभूतोऽनघो निर्दूषणः सर्ववक्तव्यस्य सर्वज्ञमूलत्वेनं दोषकालुष्यानवकाशात् । तु समुच्चयार्थे । यत्र पुनः पूर्वापरविघातः क्वापि न विद्यते, पूर्वस्मिन्नादो परस्मिन् प्रान्ते च
Jain Education International
१. कंत्र्या - म. १, प. १, २ । २. त्रया- प. । ३. सत्तावियो - म. १,२४ -तिविनाशर - प. २ । ५. - धर्मपदेन प. १, २, म. १, २ । ६. फलकत्वा - मु. । ७. गदितोऽधुना म. १, २ । ८ -पराधाभ. १, २ । ९. किंविशिष्टोऽन- प. १, २, म. १ । १०. स्मिश्च प्रान्ते वि-प. १, २, भ. १ ।
For Private & Personal Use Only
www.jainelibrary.org