________________
- का० ४३. ६३५ ]
सांख्यमतम् ।
१५७
सत्त्वरजस्तमांसि। ततः स्वार्थे "ण्यो नन्दादेः" इति ण्यः, यथा त्रयो लोकास्त्रैलोक्यं षड्गुणाः षाड्गुण्यम्, ततस्त्रैगुण्यं रूपं स्वभावो यस्य सामान्यस्य तत् त्रैगुण्यरूपमिति । प्रमाणस्य च फलमित्थम् । पूर्वं पूर्वं प्रमाणमुत्तरं तु फलमिति ।
३५. तथा कारणे कार्यं सदेवोत्पद्यतेऽसदका (क) रणादिभ्यो हेतुभ्यः । तदुक्तम्“असदका (क) रणादुपादानग्रहणात्सर्वसंभवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम् || १ ||" [ सांख्यकारिका ९ ] इति ॥ अत्र सर्वसंभवाभावादिति, यद्यसत्कार्यं स्यात्तदा सर्व सर्वत्र भवेत् । ततश्च तृणादिभ्योऽपि सुवर्णादीनि भवेयुः, न च भवन्ति, तस्मात्कारणे कार्यं सदेव । तथा
सामान्य रूप है - सर्वत्र अन्वित है, सबका समान रूपसे भोग्य है । प्रमाणका विषयभूत बाह्य अर्थ वास्तविक है काल्पनिक नहीं ।" ( स्वार्थ में 'ण्यो नन्दादेः' सूत्र से ण्य प्रत्यय करनेपर ) त्रिगुण ही
गुण्य कहे जाते हैं, जैसे कि त्रिलोक ही त्रैलोक्य, षड्गुण ही षाड्गुण्य कहा जाता है। त्रैगुण्यरूप सामान्य है । पूर्व-पूर्व प्रमाण है तथा उत्तर उत्तर फल रूप हैं अर्थात् सन्निकर्षंकी प्रमाणता में निर्विकल्प फल निर्विकल्पको प्रमाण माननेपर सविकल्पकज्ञान फल कहा जाता है ।
$ ३५. कारणमें कार्यकी सत्ता रहती है अतः कारणमें विद्यमान ही कार्य उत्पन्न होता है । सरकार्यवादकी सिद्धिके लिए सांख्यकारिकामें कहा है- " असत् वस्तु खर विषाणकी तरह उत्पन्न नहीं की जा सकती, कार्यकी उत्पत्तिके लिए लोग उपादान कारणको ही ग्रहण करते हैं, सब कारणोंसे सब कार्योंको उत्पत्ति नहीं होती, समर्थ भी कारण अपने करने योग्य ही कार्यको उत्पन्न करता है, तथा संसार में कार्य-कारण भाव देखा जाता है इसलिए यह मानना ही चाहिए कि'कारणमें कार्य सत् है ।' सर्वसम्भवाभावात् - यदि कारणमें कार्य असत् होकर भी उससे उत्पन्न हो जाये तो सबसे सबकी उत्पत्ति होनी चाहिए, तृणसे भी सुवणं को उत्पन्न होना चाहिए । पर संसार में प्रतिनियत कारणोंसे प्रतिनियत ही कार्यों की उत्पत्ति देखी जाती है अतः यह सहज ही कहा जा सकता है कि- 'जिस कारण में जिस कार्यका सद्भाव है उससे वही उत्पन्न होता है
१. - नन्तादेः क., म. १, २, प. १, २ । २. -त्तरं ( उत्तरं ) तु आ. । ३. " इह लोके सदेव सद्भवति । असत: का ( क ) रणं नास्ति । यदि स्यात्तदा सिकताभ्यस्तैलं कूर्मरोमभ्यः पटप्रावरणम्, बन्ध्यादुहितृभ्रूविलासः, शशविषाणं, खपुष्पं च स्यात् । न चास्ति तस्मादनुमीयते प्रधाने प्रागुत्पत्तेर्महृदादिकमस्त्येव । उपादानग्रहणात् । इह लोके यो येनार्थी स तदुपादानग्रहणं करोति । तन्निमित्तमुपादत्ते । तद्यथा दध्यर्थी क्षीरस्योपादानं कुरुते । यदि चासत्कार्य स्यात्तदा दध्यर्थी उदकस्याप्युपादानं कुर्यात्, न च कुरुते, तस्मात् महदादि कार्यमस्तीति । किं च सर्वसम्भवाभावात् । इह लोके यद् यस्मिन् विद्यते तस्मादेव तदुत्पद्यते । यथा तिलेभ्यस्तैलं दध्नो घृतम् । यदि चासत्कार्यं स्यात्तदा सर्वं सर्वतः सम्भवेत्ततश्च 'तृणपांसुबालुकादिभ्यो रजतसुवर्णमणिमुक्ताप्रवालादयो जायेरन् । न च जायन्ते तस्मात्पश्यामः सर्वसम्भवाभावादपि महदादि कार्यं प्रधाने सदेव सद्द्भवतीति । अतश्चास्ति — शक्तस्य शक्यकरणात् । इह लोके शक्तः शिल्पी करणादिकारणोपादानकालोपायसंपन्नः शक्यादेव शक्यं कर्म आरभते नाशक्यमशक्यात् । तद्यथा शक्तः कुम्भकारः शक्यादेव मृत्पिण्डात् शक्यदण्डचक्रसूत्रोदकविदलतलादिभिः संपन्नों घटशरावोदञ्चनादीन्यारभमाणो दृष्टः । न च मणिकादि, अशक्यत्वात्तावता पिण्डेन तस्य । यदि पुनः करणनियमो न स्यात् अशक्या दप्यशक्यमारभ्येत । तस्मात् सत्कायं स्याम्नासत् । किं च कारणभावाच्च । कार्यं सदेव स्यात् । इह लोके यल्लक्षणं कारणं तल्लक्षणं कार्यं स्यात् । यथा कोद्रवेभ्यः कोद्रवाः, ब्रीहिम्यो ब्रीहयः स्युः । यदि चासत्कार्यं स्यात् तदा कोद्रवेभ्यः शालीनामपि निष्पत्तिः स्यात् । न च भवति । तस्माकारणभावादपि पश्यामः प्रधाने महदादि कार्यमस्तीति । साघितमेवमेतैः पञ्चभिर्हेतुभिः सत् कार्यम् ।" मांख्यका. मा. वृ. ९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org