________________
परिशिष्ट
वज्रलेपमंदिर आदि की अधिक मजबूती के लिये प्राचीन जमाने में जो दीवाल आदि के ऊपर लेप किया जाता था, वह बृहत्संहिता में वज्रलेप के नाम से इस प्रकार प्रसिद्ध है
भामं तिन्दुकमाम कपित्थकं पुष्पमपि च शाल्मल्याः । बीजानि शल्लकीनां धन्वनवल्को वा चेति ॥ १॥ एतः सलिलद्रोणः काथयितव्योऽष्टभागशेषश्च । अवतार्योऽस्य च कल्को द्रव्यरेतः समनुयोज्यः ॥२॥ श्रीवासकरसगुग्गुलुभल्लातककुन्दुरूकसर्जरसैः ।
मतसीविल्वैश्च युतः कल्कोऽयं वज्रलेपाख्यः ॥ ३ ॥ टी-तिन्दुकं तिन्दुकफलं, आममपक्वम् । कपित्यकं कपित्यकफलमामेव । शाल्मल्याः शाल्मलिवृक्षस्य च पुष्पम् । शल्लकीनां शल्लकीवृक्षाणां बीजानि । धन्वनवलको धन्वनवृक्षस्य वल्कस्त्वक् । वचा च । इत्येवं प्रकारः । एतैर्द्रव्यैः सह सलिलद्रोण: क्वार्थयितव्यः । द्रोणः पलशतद्वयं षट्पञ्चाशदधिकम् । यावदष्टभागावशेषो भवति, द्वात्रिंशत्पलानि अवशिष्यन्त इत्यर्थः । ततोऽष्टभागावशेषोऽवतार्योऽवतारणीयो ग्राह्य इत्यर्थः । अस्य चाष्टभागशेषस्वतद्रव्यैवेक्ष्यमाणः कल्पश्चूर्णः समनुयोज्यो विधातव्यः । तच्चूर्णसंयुक्त कार्य इत्यर्थः । कैः इत्याह-श्रीवासकेति श्रीवासकः प्रसिद्धवृक्षनिर्यासः। रसो बोलः, गुग्गुलुः प्रसिद्धः, भल्लातकः प्रसिद्ध एव। कुन्दुरुको देवदारुवृक्षनिर्यासः । सर्जरसः सर्जरसवृक्षनिर्यासः । एतैः तथा अतसी प्रसिद्धा । बिल्वं श्रीफलं एतैश्च युतः समवेतः । अयं कल्को वज्रलेपाख्यः, वज्रलेपेत्याख्या नाम यस्य ।।१।२।३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org