SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ नाम्नि चतुर्थः पादः अवर्गान्तस्य सर्वादेः संबन्धिन आमः स्थाने साम् आदेशो भवति । सर्वेषाम् । येषाम् । सर्वासाम् । तत्संबन्धिविज्ञानं किम् ? प्रियसर्वाणाम् ॥ ३३ ॥ युष्मद्-अस्मदभ्याम् आकम् । ३४ । आभ्यां परस्य आमः स्थाने आकम् आदेशो भवति । युष्माकम् । अस्माकम् । प्रिययुष्माकम् । प्रियास्माकम् । 'आकम्' इति आकारः ण्यन्तार्थम्-युष्मान् आचक्षाणानां युष्माकम् ।। ३४ ॥ शसः इनुः । ३५ । युष्मद्-अस्मद्भ्यां परस्य शसः श्नु आदेशो भवति । युष्मान् । अस्मान् । प्रियत्वान् । प्रियमान् ॥ ३५ ॥ __ अम्-औ म् । ३६ । युष्मद्-अस्मद्भ्यां परः अम् औश्च म् भवति । त्वाम् । माम् । अतित्वाम् । अतिमाम् । युवाम् । आवाम् । अतियुवाम् । अत्यावाम् ।। ३६ ॥ सि-भ्यसोः अद । ३७ । युष्मद्- अस्मद्भ्यां परस्य ङसेः, तस्य संबन्धिनः एव भ्यसश्च अद् आदेशो भवति । त्वद् । मद् । अतियुवत् । अत्यावत् । युष्मत् । अस्मत् ॥ ३७ ॥ अभ्यं भ्यसः । ३८ । युष्मद्-अस्मद्भ्यां परस्य चतुर्थीभ्यसः स्थाने अभ्यम् आदेशो भवति । युष्मभ्यम् । अस्मभ्यम् । अतित्वभ्यम् । अतिमभ्यम् ॥ ३८ ॥ आ व्यञ्जने । ३९ । व्यञ्जनादौ स्यादौ परे युष्मद्-अस्मदोः आकारः अन्तादेशो भवति । त्वाम् । माम् । युष्मान् । अस्मान् ॥ ३९ ॥ दो लुक् । ४०। युष्मद्-अस्मदोः दकारान्तयोः स्यादौ परे अन्तस्य लुग् भवति । युष्मभ्यम् । अस्मभ्यम् । त्वत् । मत् ॥ ४० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy