________________
२०] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
हाभ्यामह वा व्यञ्जनम् । २१ । स्वरात् पराभ्यां रेफ-हकाराभ्यां परं रेफ-हकारवर्जितं व्यञ्जनं द्विर्वा भवति ।
आर्य्यः, आर्यः । ब्रम्मा, ब्रह्मा । स्वराद् इति किम् ? अभ्यते । हृते । हाभ्याम् इति किम् ? आस्यम् । अर्हम् इति किम् ? बर्हिः । दहः । अनु इत्येव-प्रोणुनाव ॥२१॥
अदीर्घाद् विराम-एकव्यञ्जने । २२ । __ अदीर्घात् स्वरात् परं रेफ-हकारवर्जितं व्यञ्जनं विरामे एकस्मिन् व्यञ्जने च परे द्वियं भवति ।
त्वक् , त्वक् । दद्धचत्र, दध्यत्र । 'अनु' इत्यधिकारात् कुत्वादौ कृते द्वित्वम् । अर्ह मिति किम् ? चर्या । सह्यम् । अदीर्घाद् इति किम् ? सूत्रम् । विराम-एकव्यञ्जने इति किम् ? मृत्स्ना। विरामे द्वित्वविधानसामर्थ्यात् “ पदस्य" ना० द्विती० पादः सूत्र ६१] इति लोपो न भवति ।। २२ ।।
यत्रो वर्यः । २३ । यञः परो वर्यः वा द्विर्भवति । वृक्षव् करोति, वृक्षव् करोति । वल्म्मीकम् , वल्मीकम् । वर्य इति किम् ? सेव्यम् ॥ २३ ॥
ततो यञ् । २४ । ततो वात् परो यञ् वा द्विर्भवति । दध्य्यत्र, दध्यत्र । त्रप्वत्र, त्रप्वत्र । वाद् इति किम् ? बाल्यम् ॥ २४ ॥
शिटः प्रथम-द्वितीयौ । २५। शिटः परौ प्रथम-द्वितीयौ द्विर्वा भवतः । कश्चरति, कश्चरति । त्वं क्खनसि, त्वं खनसि । शिट इति किम् ? भवान् करोति ॥ २५ ॥
ताभ्यां शिट् । २६ । ताभ्यां प्रथम-द्वितीयाभ्यां परः शिट् द्विर्वा भवति । तच् ३शेते, तच्शेते । वत्स्सः, वत्सः । ताभ्यामिति किम् ? भवान् साधुः ॥ २६ ॥
न रात् स्वरे । २७ । रेफात् परः शिट् स्वरे परे द्विर्न भवति । अर्शः । कर्षम् । तेर्सम् । स्वर इति किम् ? कर्ण्यते, कर्ण्यते ॥ २७ ॥
इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ चतुर्थः सन्धिः समाप्तः ।।
१. अत्र श्रीहेमाचार्याः इदमुदाहरन्ति--"वास्य॑म् । कार्सरम्" । वृसी ऋषीणाम् आसनम् । वृस्या इदम् वाय॑म् । कृसराया इदम् कार्सरम्-१।३।३७॥ 'तर्सम् ' इत्यस्य पदस्य भावो न ज्ञायते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org