________________
चतुर्थः सन्धिः
[ १९
क्रुङ्ङास्ते । सुगण्णत्र । पचन्निह । कृषन्निह इत्यत्र " असिद्धं बहिरेङ्गमन्तरङ्गे " [ न्यायसंग्रहे न्याय २० ] इति णत्वं न भवति । हूस्वाद् इति किम् ? प्राङ् आस्ते । राज३न् इह । स्वरे इति किम् ? पठन् रमते ॥ १६ ॥
दीर्घाद् वा छः । १७ ।
पदान्ते वर्तमानात् दीर्घात् परः छकारो द्विर्वा भवति ।
कन्याच्छत्रम्, कन्याछत्रम् । दीर्घाद् इति किम् ? वाक्छत्रम् । पदान्त इति किम् ? हृच्छति ॥ १७ ॥
प्लुतात् । १८ ।
पदान्ते वर्तमानात् दीर्घस्थानिकात् प्लुतात् परः छकारो द्विर्वा भवति ।
आगच्छ भो वह्निभूते ३ च्छत्रमानय, आगच्छ भो वह्निभूते ३ छत्रमान ॥ १८॥ आङ्-माङः अव्ययात् । १९ ।
आङः माङश्च अव्ययात् परः छकारो द्विर्भवति ।
आ च्छाया । मा च्छिदत् । आङ्-इति किम् ? आ छायायाम् । वाक्ये स्मरणे च अयम् आकारः । अव्ययात् इति किम् ? प्रमीयते इति प्रमा, प्रमाच्छात्रः । विकल्पबाधनार्थं वचनम् ॥ १९ ॥
स्वरेभ्यः अनु । २० ।
स्वरात् परः छकारः प्राप्ते कार्यान्तरे कृते सति पश्चाद् द्विर्भवति ।
गच्छति । च्छति । श्वेतच्छत्रम् । अनु इति किम् ? प्रश्नः । प्रष्टा । श-षाभ्यामन्तरङ्गमपि द्वित्वं न भवति । 'विच्छिता' इति गुणो न, छकारस्य इति । बहुवचनं पदान्ते अपदान्ते च स्वरग्रहणार्थम् ॥ २० ॥
१ अन्तरङ्गलक्षणम् – " प्रकृतेराश्रितं यत् स्यात् यद् वा पूर्वं व्यवस्थितम् । यस्य वाऽल्पनिमित्तानि अन्तरङ्गं तदुच्यते " ॥ १ ॥ बहिरङ्गलक्षणम् - " प्रत्ययस्याश्रितं यत् स्यात् बहिर्वा यद् व्यवस्थितम् । बहूनि वा निमित्तानि यस्य तद् बहिरङ्गकम् ॥ २ ॥
""
- [ न्यायसंग्रहे पृ० २० ] २. सूत्रे वित्आकारो गृहीतः अतः " वाक्य- स्मरणयोः अङित् " इति चतुर्थसन्धिगतचतुर्थसूत्रस्य वृत्तौ प्रोक्तत्वात् अत्र 'आ छायायाम्' इति प्रयोगे आकारः अङित् बोध्यः ।
३. 'छकारस्य द्वित्वे सति उपान्त्यहस्वस्वराभावात्' इति अध्याहार्यं प्रतिभासते ।
४. पदान्ते अपदान्ते च " इति हैमवचनम् १|३|३०|
6
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org