________________
चतुर्थः सन्धिः देवी"[
] "अहोऽयं निभृतः पक्षी बकः परमधार्मिकः" [ इति । तत् पूर्वेषां न सम्मतम् इत्युपेक्षा ॥ ५ ॥
सौ वा इतौ।६। सिनिमित्तः ओकारान्तः इतिशब्दे परे असन्धिर्भवति वा । पटो इति, पटविति । इतौ इति किम् ? पटोऽत्र ॥ ६ ॥
वाद उञः स्वरे वः असन् । ७। वाद् परस्य उञः स्वरे परे वकारादेशो वा भवति, स चं असन् ।
क्रुङ आस्ते, वास्ते । किमु इति, किम्विति । व्यवस्थितविभाषाविज्ञानात् तालव्यात् ञकारात् परस्य न भवति-यजु उपैति। असत्वात् द्वित्वम् अनुस्वाराभावश्च ॥७॥
तृतीयस्य स्वः अनुनासिकः पञ्चमे । ८। तृतीयस्य पदान्ते वर्तमानस्य पञ्चमे परे स्वः अनुनासिको भवति वा । मुख-नासिकावचनः अनुनासिकः ।
वाङ्मधुरः, वाग्मधुरः। षण्नयाः, षड्नयाः। तन्नयनम् तद्नयनम् । ककुम्मण्डलम् ककुब्मण्डलम् । पञ्चम इति किम् ? वाग् जयति । केचित् व्यञ्जनमात्रस्य अनुनासिके परे अनुनासिकमिच्छन्ति–हलमात्रम् , हल्मात्रम् । तद् अन्येषां न सम्मतम् ॥ ८ ॥
प्रत्यये । ९। तृतीयस्य पदान्ते वर्तमानस्य पञ्चमादौ प्रत्यये परे नित्यं स्वः अनुनासिको भवति । .. वाङ्मयम् । षण्णाम् । नित्यार्थं वचनम् ॥ ९ ॥
म्नां धुटि अपदान्ते । १० । मकार-नकाराणाम् अपदान्ते वर्तमानानां धुटि परे धुटः स्वः अनुनासिकः भवति ।
गन्ता । शङ्किता । बहुवचनं विध्यन्तरबाधनार्थम्-संरम्भः, इह परोऽपि णो न भवति । धुटि-इति किम् ? गम्यते । अपदान्त इति किम् ? भवान् परमः ।। १० ॥
१. उपाध्यायश्रीयशोविजयमहापण्डितप्रणीते गुजरभाषाग्रन्थे द्रव्यगुणपर्यायरासे २५७ गाथायाः गुर्जरभाषानिबद्धे विवेचने (टबायां) अयं श्लोकः संपूर्णः एवं दृश्यते
"शनैर्मुञ्चति पादान् जीवानामनुकम्पया ।
. पश्य लक्ष्मण ! पम्पायां बकः परमधार्मिकः ॥" २. " रमेः अपरोक्षा-शपि '' [आख्यातपाद पञ्चम, सूत्र २९] इत्यनेन ‘रभ्' धातौ 'न् 'कारागमे जाते ‘रन्भ्' इति स्थितौ 'न् 'कारस्य णत्वं न जातम् इति बोध्यम् ।
१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org