________________
१६ ]
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
द्विवचनभूतो यः एकारः स स्वरे परे असन्धिर्भवति । पचेते अत्र । पचेथे अत्र । पचावहे आवाम् ॥ २ ॥ गित् । ३ ।
गानुबन्धः स्वरे परे असन्धिर्भवति ।
मुनी इमौ । शाले एते । माले इमे । स्वरे परे प्रत्यासत्तेस्तन्निमित्तकसन्धिकार्यप्रतिषेधाद् अन्यनिमित्तो दीर्घादिर्भवत्येव । इह ' मणीव' आदिषु असन्धिप्रतिषेधो न वक्तव्यः बहूनामसम्मतत्वात् । तथा च प्रयोगः - " मणी इवोद्भिन्नमनोहर त्विषौ " [ इति । यस्तु प्रयोगः - " मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम " [ इति । तत्र श्रुतपालेन 'वा' शब्दः इवार्थो व्याख्यातः ॥ ३ ॥ चादिः स्वरः अनाङ् । ४ ।
आवर्जश्वादिः स्वरः असत्त्ववाची स्वरे परे असन्धिर्भवति ।
अ अपेहि । इ इन्द्रं पश्य । उ उत्तिष्ठ । आ एवं नु मन्यसे । आ एवं किल तत् । चादिरिति किम् ? हे अ आगच्छ हे आँगच्छ । उत्तरत्र ' अन्त 'ग्रहणाद् इह केवलः स्वरो गृह्यते, इह न स्यात् - त्वं चाहं च । अनाङ् इति किम् ? औ + ईषद् + उष्णम् ओष्णम् ।
66
'ईषदर्थे क्रियायोगे मर्यादा - अभिविधौ च यः । एतमातं ङितं विद्यात् वाक्य- स्मरणयोरङित् ॥ ३ ॥ प्रत्यासत्तेर्निमित्तस्वरेण सह सन्धिप्रतिषेधाद् अन्येन अस्य रुजति ॥ ४ ॥
]
]
Jain Education International
ओदन्तः । ५ ।
ओकारान्तश्चादिः स्वरे परे असन्धिर्भवति ।
अहो अयम् । अवो इदम् । चादिरिति किम् ? मिथोऽत्र । 'मिथो ' इति चादेः पूर्वः । इह अव-यपरे केषांचित् प्रतिषेधः । तथा च प्रयोगः–“ अथोऽव्याद् भारती
[ काशिका १|१|१४ ] भवत्येव - जनु उ जानू
१. अस्य विधानस्य " मणी इवोद्भिन्न' - इत्यादि उदाहरणम् अत्र 'मणी' इति दीर्घान्तरूपं न परस्वरनिमित्तकम् इति तात्पर्यम् ।
6
२. 'अ' इति विष्णुसूचकस्य 'अ'स्य संबोधनम् । २ अ + आगच्छ इत्यस्य सन्धौ जाते रूपम् । ३. अत्र 'आ + उष्णम्' इति पूर्वावस्था बोध्या, 'ईषद्' इति तु अर्थसूचकं पदम् । ४. अत्र जानु उ अस्य इत्यत्र ' अस्य' इति पदान्तर्गते अकारे सति 'उ' इत्यस्य सन्धिप्रतिषेधः परन्तु जानु' पदस्य अन्तिम उकारेण परस्य 'उ' इत्यस्य न सन्धिनिषेधः इति रहस्यम् ।
For Private & Personal Use Only
www.jainelibrary.org