________________
४१८] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । यिनः । वाजसनेयिनः ॥ ६८ ॥ .
स्त्रियाः पुंसः द्वन्द्वात् च । ६९ । 'स्त्री'शब्दात् परः यः 'पुंस'इति शब्दः तदन्तात् द्वन्द्वात् कर्मधारयात् च अत् समासान्तः बवति ।
स्त्री च पुमान् च स्त्रीपुंसम् । स्त्रीपुंसौ, स्त्रीपुंसाः। कर्मधारयात्-स्त्री भूत्वा पुमान जातः स्त्रीपुंसः शिखण्डी । द्वन्द्वात् च इति किम् ? स्त्रियाः पुमान् स्त्रीपुमान् ॥ ६९ ।। ऋग्यजुष-अहोरात्र-नक्तंदिव-रात्रिंदिव-अहर्दिव-ऊर्वष्ठीव-पदष्ठीव
अक्षिभ्रुव-दारगव-ऋकसाम-धेन्वनडुह-वाङ्मनसम् । ७० । एते द्वन्द्वा 'अत् प्रत्ययान्ताः निपात्यन्ते ।
ऋक् च यजुश्च ऋग्यजुषम् । अहश्च रात्रिश्च अहोरात्रः । नक्तं च दिवा च नक्तंदिवम् । एवम्- रात्रिंदिवम् निपातनात् अम् । अहश्च दिवा च अहर्दिवम् । “अहनिशम्" इति [ ] अपरे, अत्र समासे सति अन्यतरः किल रात्रिपर्यायः । ऊरू च अष्ठीवन्तौ च ऊर्वष्ठीवम् । पादौ च अष्ठीवन्तौ च पदष्ठीवम् । अक्षिणी च भ्रुवौ च अक्षिभ्रुवम् । दाराश्च गावश्च दारगवम् । ऋक् च साम च ऋक्सामम् । धेनुश्च अनड्वांश्च धेन्वनडुहाः । वाक् च मनश्च वाङ्मनसम् ।। ७० ।।।
चवर्ग-द-ष-हः समाहारे । ७१।। . चवर्ग-दकार-पकार-हकारअन्तात् द्वन्द्वात् समाहारे वर्तमानात् अत् समासान्तो भवति ।
वाक् च त्वक् च वाक्त्वचम् । श्रीस्रजम् । संपद्विपदम् । वाक्त्विषम् । छत्रोपानहम् । समाहारे इति किम् ? प्रावृट्र याम् ॥ ७१ ॥
द्विगोः अन्-अहः अटै । ७२।। 'अन्'अन्तात् 'अहन्'शब्दान्ताच्च द्विगोः समाहारे वर्तमानात् अट् समासान्तो भवति।
पञ्चतक्षी । पञ्चतक्षम् । द्वयहः । व्यहः । द्विगोः इति किम् ? समाहृताः तक्षाणः संतक्षाणः । समह्नाः । समाहारे परस्यापि अटः बाधनार्थम् इदम् 'अट्' विधानम् ॥७२॥ ॥ इति श्रीमलयगिरिविरचिते शब्दानुशासने तद्धिते एकादशः खण्डितः पादः समाप्तः ।।
तत्समाप्तौ च ॥ समाप्तं स्वोपज्ञवृत्तियुतं श्रीमलयगिरिशब्दानुशासनम् ॥
१. खण्डितं जातम् । २. अस्मिन् सूत्रे 'कर्मधारयात्' इत्यस्य अनुवृत्तेः कल्प्यते यत् अत्र अन्यान्यपि समासान्तप्रत्ययविधायकानि सूत्राणि खण्डितानि प्रतिभासन्ते । ३. अतः सर्व खण्डितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org