________________
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
लोकाद् वर्णक्रमः। २। वर्गानाम् अकारादीनां क्रमः पाठपरिपाटिविशेषरूपः लोकाद् वेदितव्यः ।
अ आ इ ई उ ऊ ऋ ऋल ल ए ऐ ओ औ अं अः। क ख ग घ ७ । च छ ज झ ञ । ट ठ ड ढ ण त थ द ध न । प फ ब भ म । य र ल व । श ष स ह ॥ २॥
प्राग बिन्दोः स्वराः। ३ । बिन्दुमात्रात् (प्राग ये ) वर्णाः ते स्वरा भवन्ति ।
अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ। स्वरप्रदेशाः-“एचः स्वरे अय्-आय्-अव्-आव्" [तृ० सन्धिः १] इत्येवमादयः ।। ३ ।।
एक-द्वि-त्रिमात्राः ह्रस्व-दीर्घ-प्लुताः। ४ । __ मात्रा निमेषकालः । बिन्दोः प्राग वर्णा एक-द्वि-त्र्युच्चारणमात्रा यथासंख्यं हस्वदीर्घ-प्लुतसंज्ञा भवन्ति ।
एकमात्रो हस्वः --- अ इ उ ऋ ल । द्विमात्रो दीर्घः -- आ ई ऊ ऋ ल ए ऐ ओ औ। त्रिमात्रः प्लुतः - आ ३ ई ३ ऊ ३ ऋ३ लु ३ ए ३ ऐ ३ ओ ३ औ ३ ।। ४ ।।
अनवर्णा नामी । ५। बिन्दोः प्राग् वर्णाः अवर्णवर्जा नामिसंज्ञा भवन्ति ।
इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ । नामिप्रदेशाः --- "कु-नामि-यञः सेः षिः” [ना० द्विती० पा० २४] इत्येवमादयः ।। ५ ॥
इक् एतः।६। एकारा(त्) प्राग् वर्णा अवर्णवर्जा इक्संज्ञा भवन्ति ।
इ ई उ ऊ ऋ ॠ ल ल । इप्रदेशाः --- "इकः अस्वे यञ्" [तृ० सन्धिः २] इत्येवमादयः ।। ६ ॥
समानाः । ७। 'अनवर्णाः' इति निवृत्तम् पृथगवचनात् । एकारात् प्राग् वर्णाः समानसंज्ञा भवन्ति।
अ आ इ ई उ ऊ ऋ ऋ ल ल । समानप्रदेशाः- “ऋ-लुतोः समानस्य" [तृ० सन्धिः ४ ] इत्येवमादयः ॥ ७ ॥
ऋतः अण् ।८। - ऋतः प्राग् वा अणुसंज्ञा भवन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org