SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ॥ ॐ अहम् ।। आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम्। ॥ नमो वीतरागाय ॥ प्रथमः सन्धिः श्रेयःपदस्य सिद्धयर्थं येन कर्मादिगोचरा । विभक्तिर्दर्शिता तस्मै नमः सर्वार्थसंविदे ॥ १॥ 'येन' भगवता परमार्हन्त्यमहिम्ना विराजमानेन श्रेयःपदस्य' साधुप्रकृतिविभक्तिसमुदायस्य निःश्रेयसपदस्य च 'सिद्धये' 'कर्मादिगोचरा' कर्म-करणादिकारकसमुदायविषया कर्म-आत्मविषया च 'विभक्तिः' स्यादि-तिबादिरूपा पृथक्तालक्षणा च भव्यजनानुग्रहाय ‘दर्शिता' 'तस्मै सर्वार्थसंविदै' सकलद्रव्य-पर्यायप्रपञ्चसाक्षात्कारिणे 'नमः' कुर्वे इति उपस्कारः । . ऐवं कृतमङ्गलरक्षाविधानः परिपूर्णम् अल्पग्रन्थम् लघूपायम् आचार्यो मलयगिरिः शब्दानुशासनम् आरभते । निःश्रेयसार्थिनो हि प्रेक्षापूर्वकारिणः, तन्मार्गानुष्ठानं च शब्दार्थज्ञानपूर्वकम् "आगमतः सर्वज्ञः" [ ] इति वचनात् । शब्दार्थज्ञानं च शब्दानुशासनात् इति ॥ सिद्धिः अनेकान्तात् । १। एकान्तप्रतिक्षेपेण कथंचित्तया वस्तुस्वरूपाभ्युपगमः अनेकान्तः । ततः शब्दानां सिद्धिर्वेदितव्या । न खलु अनेकान्तमन्तरेण शब्दाः सिद्धिमश्नुवते, तथाप्रमाणेन अग्रहणात् 'अय्' आदिविकारानुपपत्तेश्च । केवलनित्या-ऽनित्यपक्षे तदसंभवात् ॥१॥ १. "परमार्हन्त्यमहिम्ना विराजमा"- इत्यादि-अमोघ० । २. "एवं कृतमङ्गलरक्षाविधानः परिपूर्णम् अल्पग्रन्थम् लघूपायम्" अमोघ० । ३. “शब्दार्थज्ञानपूर्वकं च सन्मार्गानुष्ठानम्" अमोघ० । ४. “एचः स्वरे अय्-आय्-अव्-आ" [तृ० सं० १] इत्यनेन 'अय्' आदिविकारानुपपत्तिः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy