________________
आख्याते चतुर्थः पादः शीनं घृतम्-द्रवीभूय काठिन्यं गतम् इत्यर्थः । शीतः वायुः । द्रवमूर्ति-स्पर्शे इति किम् ? संश्यानः वृश्चिकः शीतेन ॥ ५१ ॥
प्रतेः । ५२। प्रतेः परस्य श्यायतेः सस्वरस्य यञः क्तयोः परयोः संप्रसारणं भवति । प्रतिशीनः । प्रतिशीनवान् । अद्रवमूर्ति-स्पर्शार्थः आरम्भः ॥ ५२ ॥
वा अभि-अवपूर्वस्य । ५३ । अभि-अवपूर्वस्य श्यायतेः सस्वरस्य यञः क्तयोः परयाः संप्रसारणं भवति वा ।
अभिशीनः, अभिश्यानः । अवशीनः, अवश्यानः । द्रवमूर्ती अपि परत्वात् अयमेव विकल्पः-अवशीनम् , अवश्यानं घृतम् । 'पूर्व' ग्रहणम् किम् ? समभिश्यानः, समवश्यानः । “अभिसंशीनः, अभिसंश्यानः। अवसंशीनः, अवसंश्यानः" [ ] इति एके ॥ ५३ ॥
प्र-समः स्त्यः । ५४। प्रोत् समश्च परस्य त्यायतेः सस्वरस्य यञः क्तयोः परयोः संप्रसारणं भवति । प्रस्तीमः । प्रसंस्तीमः । प्र-समः इति किम् ? संस्त्यानः । संप्रस्त्यानः ।। ५४ ॥
स्फायः। ५५। स्फायः सस्वरस्य यञः क्तयोः परयोः संप्रसारणं भवति । स्फीतः । स्फीतवान् । क्तयोः इति किम् ? स्फातिः ।। ५५ ॥
श्रा-अपेः शृतं पक्वे हवि:-क्षीरे । ५६ । पँक्वः पचेः कर्म कर्मकर्ता च, तस्मिन् हविषि क्षीरे च वाच्ये क्ते परे श्रातेः श्रायतेः श्रपयतेश्च कृतसंप्रसारणं 'शृतम्' इति निपात्यते । निपातनस्य इष्टविषयत्वात् श्रातेः श्रायतेश्च कर्मकर्तरि श्रपयतेः कर्मणि निपातनम् ।
__ शतं हविः क्षीरं वा स्वयमेवे । पक्वे इति किम् ? श्रपितं हविः क्षीरं वा चैत्रेण मैत्रेण पाचितम् इत्यर्थः । हविः-क्षीरे इति किम् ? श्राणा यवागूः । श्रपिता यवागूः ।। ५६ ॥
१ अत्र न 'अभि'पूर्वः किन्तु 'समभि'पूर्वः । २ एवम् अत्रापि न 'अव पूर्वः किन्तु 'समव'पूर्वः । ३ अत्र आचार्यण एवं विवक्षितम्-प्रात् परस्य अथवा 'प्र-सम्' इति समुदायात परस्य, एतच्च उदाहरणदर्शनात् प्रत्युदाहरणदर्शनाच्च प्रतीयते । ४ “पक्वशब्देन एकीकृतोऽर्थः पक्वः "-शाकटा० चिन्ता० ४।१।१३४॥ ५ अत्र “शृतं हविः शृतं क्षीरं देवदत्तेन " इत्येवं श्रपेः उदाहरणं पतितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org