SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १८२] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । - णौ सन्-डे । ४५। सन्परे ङपरे च णौ ह्वेञः यत्रः सस्वरस्य संप्रसारणं भवति । जुहावयिषति । अजूहवत् ॥ ४५ ॥ श्वेः वा । ४६ । श्वयतेः सन्परे ङपरे च णौ विषयभूते सस्वरस्य यञः संप्रसारणं भवति वा । शुशावयिषति, शिश्वाययिषति, अशूशवत् , अशिश्वयत् ॥ ४६ ॥ .. यङ्-परोक्षयोः । ४७ । श्वयतेः यङि परोक्षायां च सस्वरस्य यञः संप्रसारणं भवति वा । शोशूयते, शेश्वीयते । शुशाव, शिश्वाय । शुशुवतुः, शिश्वियतुः ॥ ४७ ॥ प्यायः या। ४८ । यङि परोक्षायां च परतः प्यायः यकारेण सह सस्वरस्य यत्रः संप्रसारणं भवति । आपेपीयते । आपिप्ये ॥ ४८ ॥ .. क्तयोः अनुपसर्गस्य । ४९। अनुपसर्गस्य प्यायः क्तयोः परयोः सस्वरस्य यञः यकारेण सह संप्रसारणं भवति । पीनं मुखम् ।. पीनवन्मुखम् । अनुपसर्गस्य इति किम् ? आप्यानो मेघः ॥ ४९॥ आङः अन्धु-ऊधसोः। ५० । आङः परस्य प्यायः अन्धौ ऊधसि च अर्थे क्तयोः परयोः सस्वरस्य यत्रः यकारेण सह संप्रसारणं भवति । आपीनः अन्धुः । आपीनम् ऊधः । आङः इति किम् ? प्राप्यानम् ऊधः । प्यायिः अनुपसर्गः आपूर्वः ‘आङ्'अन्तोपसर्गसमुदायपूर्वो का स्वभावात् प्रयुज्यते, अत्र 'आङः' इति वचनात् 'आङ्'अन्तोपसर्गसमुदायनिवृत्तिः। अन्धु-ऊधसोः इति किम् ? आप्यानः चन्द्रमाः ॥ ५० ॥ द्रवमूर्ति-स्पर्शे श्यः । ५१ । .... मूर्तिः काठिन्यम् द्रवमूर्ती स्पर्शे च अर्थे वर्तमानस्य श्यायतेः क्तयोः परयोः सस्वरस्य यत्रः संप्रसारणं भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy