________________
आख्याते चतुर्थः पादः द्वित्वे हि-हनोः अडे घः पूर्वात् । १ । हि-हनोः 'ङ'वर्जे प्रत्यये परे द्वित्वे सति पूर्वस्मात् परस्य 'घकार आदेशो भवति । प्रजिघाय । प्रजेधीयते । जघान । जिघांसति । अङे इति किम् ? प्राजीहयत् ॥१॥
जेः गिः सन्-परोक्षयोः।२। जयतेः सनि परोक्षायां च द्वित्वे सति पूर्वस्मात् परस्य ‘गकार' आदेशो भवति । जिगाय जिगीषति ॥ २ ॥
चेः किः वा । ३। चित्रः सनि परोक्षायां च द्वित्वे सति पूर्वस्मात् परस्य ककार आदेशो वा भवति । चिकाय । चिचाय । चिकीपति । चिचीषति ॥ ३ ॥
सञ्जः षिः पणि । ४। सञ्जः ‘सञ्ज संगे' इत्यस्य ण्यन्तस्य षणि-पत्वभूते सनि सति द्विर्भावे पूर्वात् परस्य षिः वा भवति । सिसञ्जयिषति, षिषञ्जयिषति ॥ ४ ॥
न स्विदि-स्वदि-सहि-अणि-स्तोः। ५। स्विदि स्वदि सहि इत्येतेषां ण्यन्त-स्तौतिवर्जितानां पणि सति द्विर्भावे पूर्वात् परस्य षिः न भवति । स्विस्वेदयिषति । स्विस्वादयिषति । सिसाहयिषति ॥ ५ ॥
पूर्वस्य अस्वे स्वरे 'वि'वर्णस्य उव्-इय् । ६। द्वित्वे सति पूर्वस्य संबन्धिनः उवर्णस्य इवर्णस्य च यथासंख्यम् उव् इय् आदेशौ भवतः ।
उवोष । इयेष । अरियति । अस्वे इति किम् ? ऊपतुः । ईषतुः । स्वरे इति किम् ? पिपक्षति ॥ ६ ॥
द्युतेः इः।७। द्युतेः द्वित्वे सति पूर्वस्य इँकारः अन्तादेशो भवति । १ उ+इ=वि इति विभागः। २ "उवर्णः” इति अमोघ० ४।११७६। ३ इकारान्तादेशो पा• ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org