________________
१४२ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
गुणः त्व-तलोः। ८९ । परतः स्त्रीलिङ्गः गुणवचनः त्व-तलोः परयोः पुंवत् भवति । पट्याः भावः पटुत्वम् , पटुता । गुण इति किम् ? कठीत्वम् । कठीता ॥८९।।
सर्वादिः अस्यादौ । ९०। . 'सर्व'आदिः परतः स्त्रीलिङ्गः पुंवत् भवति न तु स्यादौ ।
सर्वस्त्रियः । सर्वप्रियः । भवत्पुत्रः । तस्यां वेलायां तदा । सर्वाः इच्छति सर्वकाम्यति । अस्यादौ इति किम् ? सर्वस्यै ॥ ९० ॥ ऋत्-उदितः तर-तम-रूप-कल्प-स्थ्येकार्थब्रुव-गोत्र-मत-हत-चेलटि
वा ह्रस्वः । ९१ । ऋदितः उदितश्च परतः स्त्रीलिङ्गस्य 'तर 'आदिषु प्रत्ययेषु 'ब्रुव 'आदिषु च रूयेकार्थेषु उत्तरपदेषु हस्वः पुंवद्भावश्च वा भवति ।
पचन्तितरा, पचत्तरा, पचन्तीतरा । पचन्तितमा, पचत्तमा, पचन्तीतमा । पचन्तिरूपा, पचद्रूपा, पचन्तीरूपा । पचन्तिकल्पा, पचत्कल्पा, पचन्तीकल्पा । पचन्तिब्रुवा, पच
ब्रुवा, पचन्तीब्रुवा । पचन्तिगोत्रा, पचद्गोत्रा, पचन्तीगोत्रा । पचन्तिमता, पचन्मता, पचन्तीमता । पचन्तिहता, पचद्वता, पचन्तीहता । पचन्तिचेली, पचच्चेली । पचन्तीचेली । एवम्-श्रेयसितरा, श्रेयस्तरा, श्रेयसीतरा इत्यादि । 'चेलट् 'इति टकारः ड्यर्थः । 'ब्रुव'इति अस्मादेव निपातनात् उव् ॥ ९१ ॥
यः अनेकस्वरस्य । ९२ । अनेकस्वरस्य ङीप्रत्ययान्तस्य परतः स्त्रीलिङ्गस्य 'तर 'आदिषु प्रत्ययेषु 'बुक' आदिषु च उत्तरपदेषु रूयेकार्थेषु परेषु नित्यं हस्वादेशः भवति ।
गौरितरा । गौरितमा । गौरिरूपा । गौरिकल्पा । नर्तकिब्रुवा । ब्राह्मणिमोत्रा । गार्गिमता । गार्गिचेली। अनेकस्वरस्य इति किम् ? जितरा, जीतरा ॥ ९२ ॥
नित्यदितः वा । ९३ । नित्यदितः 'तर'आदिषु 'ब्रुव'आदिषु च उत्तरपदेषु रूयेकार्थेषु हस्वः वा भवति ।
स्त्रितरा, स्त्रीतरा । हितमा, हीतमा । लक्ष्मितमा, लक्ष्मीतमा । वामोरुचेली, वामोरूचेली । नित्यदितः इति किम् ? कारिकारूपा । रूयेकार्थे इति किम् ? स्त्रिया हता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org