________________
नाम्नि नवमः पादः
[१३७ किम् ? आचार्यपुत्रः । बहुवचनम् विद्यासंबन्धस्य विद्यासंबन्धे योनिसंबन्धस्य च योनिसंबन्धे इति यथासंख्याऽभावार्थम् । अत एव 'योनिसंबन्धे' इति उभयोः विशेषणम् तेन इह न भवति-भर्तृगृहम् । भर्तृपुत्रः । पितृगृहम् ॥ ६१ ॥
___ स्वसृ-पत्योः वा । ६२ । - विद्या-योनिसंबन्धे वर्तमानानाम् ऋदन्तानां षष्ठ्याः विद्या-योनिसंबन्धनिमित्तयोः स्वसृ-पत्योः परयोः श्लुग् वा न भवति ।
होतुःस्वसा, होतृस्वसा । दुहितुःपतिः, दुहितृपतिः । विद्यायोनिसंबन्धे इति किम् ? भर्तृस्वसा । होतृपतिः ॥ ६२ ॥
आ द्वन्छे । ६३ । विद्या-योनिसंबन्धनिमित्तानां ऋदन्तानां द्वन्द्वे समासे उत्तरपदे परे पूर्वपदस्य आकारः अन्तादेशो भवति ।
होता च पोता च होतापोतारौ । ऋदन्तानाम् इति किम् ? गुरुशिष्यौ । ऋतां द्वन्द्वविशेषगम् किम् ? पितृपितामहौ । विद्यायोनिसंबन्धे इति किम् ? कर्तृ-कारयितारौ ॥६३
पुत्रे । ६४। पुत्रशब्दे उत्तरपदे परे विद्या-योनिसंबन्धनिमित्तानाम् ऋदन्तानां द्वन्द्वे आकारः अन्तादेशो भवति । होतापुत्रौ । पितापुत्रौ ॥ ६४ ॥
वेदसहश्रुत-अवायुदेवतानाम् । ६५ । वेदे सहश्रुतानाम् वायुवर्जानां देवतानां द्वन्द्वे पूर्वपदस्य उत्तरपदे परे आकारः अन्तादेशो भवति ।
इन्द्रासोमौ । इन्द्रावरुणौ । वेद इति किम् ? ब्रह्मप्रजापती। सह° इति किम् ? विष्णुशक्रौ । श्रुत' इति किम् ? चन्द्रसूर्यो । वायुवर्जनम् इति किम् ? वावग्नी । देवतानाम् इति किम् ? यूपचषालौ ।। ६५ ॥
षोम-वरुणे अग्नेः ईः। ६६ । वेदसहश्रुत-अवायुदेवतानां द्वन्द्वे षोमे वरुणे च उत्तरपदे परे अग्नेः ईकारो भवति ।
अग्नीषोमौ । अग्नीवरुणौ । 'षोम' इति अत एव निर्देशात् अग्नेः ईकारे षकारः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org