SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ नि० ५६६] तिष्यगुप्तःनिह्नवः । एवं जीवबहुत्तं गाहा । एवमुपपत्त्या सर्वप्रदेशानां जीवत्वे एकस्मिन्नेव जीवबहुत्वं प्राप्तम् । अथ ते प्रदेशा जीवा न भवन्त्यतो जीवाभाव एव प्राप्तः । अथ जीवपदार्थापलापोऽशक्य इति इच्छा-द्वितीय-तृतीयादयः प्रदेशा जीवो भवतु । विपर्ययो वा प्रथमप्रदेश एव जीवो नान्त्यप्रदेशः । विषमत्वं वा कश्चिज्जीवः कश्चिदजीवोऽस्तु । सर्वसिद्धिर्वा यद् यदभिप्रेतमिच्छा-विपर्ययादीनाम्, सर्वेऽपि वा इच्छादयः समुदिताः सिध्येयुरिति ॥२८२१॥ जं सव्वधा ण वीमुं सम्वेसु वि तं ण रेणुतेलं व । सेसेसु असम्भूतो जीवो कधमन्तिमपतेसो ॥२८२२॥ जं सव्व० गाहा । सर्वेष्वपि प्रदेशेषु जीवत्वं मा भूत् , प्रत्येकमभूतत्वात् , सिकतारेणुतैलवत्, अन्त्यप्रदेशेऽपि केवले नैवास्ति जीवत्वं बहुषु तत्तुल्येप्वभूतत्वात् , एकसिकतातैलवत् ॥२८२२॥ अध देसतोऽवसेसेसु तो वे किध सव्वधंतिमे जुत्तो । "अंतम्मि व जो हेतू स एव सेसेसु वि समाणो ॥२८२३।। ___ अध देसतो गाहा । अथैतद्दोषभयादन्त्यप्रदेश मुवत्वाऽवशेषदेश मात्रया जीवत्वम्, अन्त्यप्रदेशे तु सर्वात्मना जीवत्वमिति कल्पना चेत्, अन्येऽपि प्रदेश सर्वात्मना जीवत्वमयुक्तम्, प्रदेशत्वात् , अवशेषप्रदेशवत् । यो वाऽन्त्ये पूरणादित्वं हेतुः स सर्वेषु समान इति ॥२८२३॥ ___ अत्र दोषोपक्षेपपरिहारं प्रदर्शयितुकामः प्रमाणमाहणेह पदेसत्तणतो अंतो जीवो जधांतिमपदेसो।। आह सुतम्मि "णिसिद्धा सेसा ण तु अंतिमपदेसो ॥२८२४।। णेह पदेस० गाहा । इहान्न्यः प्रदेशो जीवो न भवति, प्रदेशत्वात्, आद्यप्रदेशवत् । एवमाचार्यणानुमाने कृते पर माह-अन्त्यप्रदेशो जीवो न भवतीति भवतामागमविरोधः, यस्माजीवत्वेन सर्वप्रदेशान्निपिध्य सूत्रेणाऽन्त्यप्रदेशस्य जीवत्वम नुज्ञातमिति ॥२८२४॥ __ अत्राचार्यः सूत्रमेव प्रमाणीकुर्वन्नाह - गणु एगो त्ति णे सिद्धो सो वि सुते जति सुतं[१८६-०]पमाणं ते । सुत्ते सव्वपतेसा भणिता जीवो ण चरिमो ति ॥२८२५॥ १ 'संभु को। २ मंति' को है । ३ पएसे हे । ५ बहुश्व इति प्रतौ । ५. तो त । ६ वि को हे त । ७ अह त हे त, तमि को । ८ शेन मा-इति प्रतौ । ९ भन्तो . हे। १० न सि त । ११ उन्तिम हे। १२ णिसिद्धो को हे। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy