________________
५४४ विशेषावश्यकभाष्ये
[नि० ५६६सोलस वासाई। रायगिहे । आतप्पवातपुत्वं । एकातयो पतेसा इत्यादि । इह व्याख्याप्रज्ञप्तौ प्रश्नः- “एगे जीवप्पएसे जीवे ति वत्तवं सिया ! णो इण२ समटे । एवं बे जीवपएसा, तिन्नि, संखेजा, असंखिग्जा वा जाव एगेणावि पएसेण ऊगो णो जीवे त्ति वत्तवं, जम्हा कसिणे पडिपुण्णे लोगागासतुल्लप्पदेसे जीवे त्ति वत्त वं-"[] अत एव सूत्रमूरीकृत्य तिष्यगुप्तो व्युत्थितः-योकादयो जीवप्रदेशा नोजीवः-'नो' शब्दः सर्वप्रतिषेधे 'न जीवः' इति-जीवाख्यां न लभन्ते, यावदेकेनापि प्रदेशेन न्यूनो न जीवः, सम्पूर्णस्तु जीवः, स ह्यजीवः सन् येन प्रदेशेन पूणों जीवाल्यां प्राप्तः स एवैकः प्रदेशो जीव इति वक्तव्यम् , शेषप्रदेशा अजीवा एवेति ॥२८१५-१८॥
अस्य प्रत्युत्तरम् - गुरुगाऽभिहितो जति ते पदमपतेसा ण सम्मतो जीवो । तो तप्परिमाणो च्चिय जीवो कधमन्तिमपदेसो ॥२८१९॥
गुरुणा गाहा । त्वदभिमतोऽन्यप्रदेशो न जीवः, आद्यप्रदेशेन तुल्यपरिमाणत्वात्, प्रथम-द्वितीयादिप्रदेशवत् ॥२८१९॥
अथवा भवतोऽप्यनिष्टापादनम्-प्रथमप्रदेशोऽपि ते जीवः, शेषप्रदेशैस्तुल्य वात्, अन्त्यप्रदेशवत् । तदर्थमियं गाथाअधव स जीवो कि ध णातिमो वि को वा विसेस हेतू ते । अध पूरणो त्ति बुद्धी एक्केको पूरणो तस्स ॥२८२०॥
__ अधव स जीवो गाहा । विशेषहेतोरभावात् सर्वप्रदेशानां तुल्यतेति पक्षधर्मत्वमा चष्टे । अथ ब्रूयास्त्वम्-साधनधर्मविकलो दृष्टान्तः, अन्त्यप्रदेशः परिणः, असंख्येयसंख्यापूरणः, प्रथमादयो न तथेति अन्त्यप्रदेशस्य शेषप्रदेशैस्तुल्यत्वमिति । 'अध परणो त्ति बुद्धी' एवंप्रकारोऽपि बुद्धिरबुद्धिरेव, एकैकस्य प्रदेशस्य तत्सं. ख्यापूरणत्वात् । न ह्येकेनापि विना सा संख्या पूर्यत इति ॥२८२०॥
एवं जीववहत्तं पतिजीवं सम्बधा व तदभावो। इच्छा विवज्जओ वा विसमत्तं सव्यसिद्धी वा ॥२८२१॥
१ "आत्मप्रवादनामकं पूर्वमधीयानस्य तिघ्यगुप्तस्यायं मूत्रालापकः समायातः-तद्यथाएगे भंते ! जीवपएसे जीव ति" इत्यादि । अत्र मलधारिवृतौ अस्मिन् पाठेऽपि पाठमेदःम. वृ० पृ. ९४६ । व्याख्याप्रज्ञप्तौ अयं विषयश्चर्चितः परन्तु तत्र प्रधानतया धर्मास्तिकाय समुद्दिश्य प्रश्नोत्तराणि संजातानि। तेषामन्ते "एगपएसणे वि यण धम्मस्थिकाये 'नो धम्मस्थिकाए' ति वत्तवं सिया ।......एवम् अहम्मस्थिकाए वि, आगासत्थिकाए वि, जीवशिकाय-पोग्गलथिका वि एवं चेव-शतक द्वितीय. उरेडाक १०।। तोत्र | anमो न को हे त। ४ संम' को हे। ५ 'रिणामो को हे त। ६ मंति' को हे। ७ कह हे त। ८ त्ति को हे त।९ पूर्णासं-इति प्रतौ । १० वि त ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org